________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
समवसरणमध्यासीनसन्नाष्टकर्मन् प्रहतकुमतिमान त्वत्पदाभ्यर्चनार्थम् । जिनवर ! सुरनागैरागते रागवद्भिः, शुभभुवि भुवि दृश्येते द्युपाताललोकौ ॥ ९ ॥ (मालिनीच्छन्दः )
३८
स्व: सिन्धुपानीयसमानराज, - द्युष्मद्यशोमञ्जुलमण्डलाल्या । विस्तारवत्या नभसा तदात, - र्देदीप्यते चन्द्र इवोष्णरश्मिः ॥ १० ॥ (इन्द्रवज्राछन्दः) श्रीपार्श्वनाथस्स ददातु मङ्गलं, स्फूर्जद्यशोभिर्गुरुभिर्यदीयकैः । क्षीराम्बुनिध्यन्तरशुभ्रिमोपमै, - र्देदीप्यते रूप्यनिभं हि कज्जलम् ॥११॥ (इन्द्रवंशाछन्दः ) इत्थं श्रीपार्श्वनाथः शमयमवितदुर्मन्मथो वल्गुमार्गे, मुक्ति श्रीपत्तनातोर्भवतु भुवि विशां भावुकानां प्रदाता । स्फू र्जत्छूीपाठक ज्ञानविमलसुगुरूपास्ति रक्तेन भक्त्या, धीमच्छ्रीवल्लभेन स्तुतकृतवचसा सत्समस्यास्तवेन ॥ १२ ॥ (स्रग्धराच्छन्दः)
इति श्रीतिमिरीपुरीश्वरश्रीपार्श्वनाथजिनराजप्रशस्य-समस्यास्तोत्रं समाप्तम्। कृतिरियं श्रीज्ञानविमलोपाध्यायमिश्राणां चरणसरसीरुहचञ्चरीक प्रकारवाचनाचार्य श्रीवल्लभगणीनामिति ।
॥ श्रीरस्तु ॥
Jain Education International
***
For Personal & Private Use Only
www.jainelibrary.org