SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तिमिरीपुरीश्वरश्रीपार्श्वनाथस्तोत्रम् समस्यामयं श्रीपार्श्वनाथजिनपं तमहं स्तवीमि, दृष्ट्वा यदीयवरधारिमवर्द्धनत्वम्। स्थूलोन्नतोऽपि जनमानसमुत्सुमेरुः, शैलो बिभर्ति परमाणुसमत्वमेषाम् ॥१॥ (वसन्ततिलकाछन्दः) वामेय सर्वीयमहं स्मरामि, त्रैलोक्यलोकंपृणवर्ण्यवर्णम् । धर्मोपदेशावसरे यदास्य,- चन्द्रो हि पृथ्व्यामुदितो विभाति ॥२॥ (इन्द्रवज्राछन्दः) यस्तर्हि पश्यति मुखं सुषमं प्रभाते, निःस्वोऽपि पार्श्वजिन! जायत इन्दुरौकाः । मूक: प्रजल्पति शृणोति च कर्णहीन:, पङ्गुश्च नृत्यति विभातितरां कुरूपः ॥३॥ (वसन्ततिलकाछन्दः) श्रीपार्श्वनाथः सततं करोतु, श्रेयांसि भूयांसि नताङ्गभाजाम्। यत्कीर्तिनक्षत्रलसत्तरङ्गै,-र्देदीप्यते व्योमतले समुद्रः ॥ ४॥ (इन्द्रवज्राछन्दः) पार्श्वप्रभो! त्वं तिमिरीपुरीशं, ध्यायंश्चिरं घातिकुकर्महत्वा। ज्ञानौषधं प्राप विलासि तस्मा,-दन्धो जगत् पश्यति दर्शरात्रौ ॥ ५॥ (इन्द्रवज्राछन्दः) प्रणतः सततं कुरुते स्तवनं, महनं च यकस्तव देवनरः। कुशलं कमलामरुजं च शिवं, लभते लभते लभते लभते ॥६॥ (त्रोटकछन्दः) पापानि नाशय भवान्तरसञ्चितानि, स त्वं जिनेश रचयाशु च मङ्गलानि। यत्सद्विशुद्धयशसः स्फुरतस्त्रिलोक्यां, सोमश्चिरेण शुशुभे खलु नीलमूर्तिः ॥७॥ (वसन्ततिलकाछन्दः) प्रापूयते नम्र सुरेन्द्र मत्र्यै, - र्दिवस्पृथिव्योरथ पार्श्वनाथः । यदीयगाम्भीर्यगुणाग्रतो वै, दधाति सिन्धुः सुरभी पदाभाम् ॥ ८॥ (उपेन्द्रवज्राछन्दः) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy