________________
३६
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः सुतनुभाऽतनुभा तनुभावुकं, वृजिनहृज्जिनहृत्कमलार्यमा। सततमाततमाननृपार्चितो, विजयदो जयदोहदपूरकः ॥ १२ ॥ सुमहितानि हितानि वचांसि यः, श्रुतिवशन्तवशंतनु पार्श्वराट्। नयति तस्यतितस्य च दुर्विशं, नरवरः स्तवरस्तमसोज्झितम्॥१३॥
(इन्द्रवज्रा छन्दः) इत्थं स्तुतो यो यमकस्तवेन, वामाङ्गजः पार्श्वजिनो जनानाम् । भूयाद्विभूत्यै विभुताप्रशस्तः, श्रीवल्लभेनार्चितपादपद्मः ॥ १४॥
इति श्रीपार्श्वनाथजिनं यमकमयं स्तोत्रं समाप्तम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org