SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्री अजितनाथस्तुतिः यद् वा, वर्णण वर्णक्रियाविस्तारगुणवचनेषु अदन्तो धातुः । वर्णक्रिया वर्णवर्णनं वर्णकरणं वा, कथां वर्णयति सुवर्णं वर्णयति [ ] इति धातुपारायणम्। वर्ण्यते सूत्रं अनेन वर्ण:=अर्थः । साधूनां जम्बूस्वामिप्रभृतिमुनीनां वर्णस्य अर्थस्य क्रमः परम्परा यस्य तत् साधुवर्णक्रमम्। सिद्धान्तस्य तीर्थकृद्भिरर्थतो गणधरान् गणधरै श्च जम्बूस्वाम्यादिसाधून् प्रतिपादनेन परम्परागमत्वात्। यद् अनुयोगद्वारसूत्रम् 'आगमे तिविहे पण्णत्ते । तं सुत्तागमे अ अत्थागमे अ तदुभयागमे अ। अहवा आगमे तिविहे पण्णत्ते । तं अत्तागमे अणंतरागमे परंपरागमे। तित्थगराणं अत्थस्स अत्तागमे। गणहराणं सुत्तस्स अत्तागमे। अत्थस्स अणंतरागमे। गणहरसीसाणं सुत्तस्स अणंतरागमे। अत्थस्स परंपरागमे। तेण परं सुत्तस्स वि अत्थस्स वि नो अत्तागमे, नो अणंतरागमे, परंपरागमे। [सूत्र १४७, पृ. २१८] इति । यद् वा, वर्ण: अक्षरम् । पदैकदेशे पदसमुदायोपचारात्। वर्ण:-वर्णश्रुतम् अक्षरश्रुतम् इत्यर्थः । साधूनां वर्णस्य अक्षरश्रुतस्य क्रमः परम्परा यस्य तत् साधुवर्णक्रमं तत् । यत् नन्दीसूत्रम् 'से किं तं सुअनाणपरोक्खं ? सुअनाणपरोक्खं चोद्दसविहं पण्णत्तं, तं जहा- अक्खरसुअं अणक्खरसुअं' [सूत्र ३७, पृ. १८६] इत्यादि इति । ___ पुनः कथम्भूतम् अशासनम् ? सत्क्रियादञ्चितम्, सती-प्रशस्ता क्रिया विचारो अर्थविचारणा तया अतति याति आयुर्वर्जं सप्तकर्मप्रकृतयो निकाचितबन्धनबद्धा श्लथबन्धनबद्धत्वं यस्मात् तत् सत्क्रि यात् । सिद्धान्तार्थविचारणा या निकाचितबन्धनबद्धानां सप्तकर्मप्रकृतीनां श्लथबन्धनबद्धत्वात् । यद् उत्तराध्ययनसूत्रम् अणुप्पेहाए णं भंते जीवे किं जणयइ, अणुप्पेहाए णं आउयवज्जाओ सत्तकम्मपगडीओ धणिअबंधणबद्धाओ सिढिलबंधनबद्धाओ। पकरेइ । दीहकालट्ठिईआओ हस्सकालट्ठिईआओ पकरेइ । तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ। [अध्ययन २९, सूत्र २२] इत्यादि। अम्=परब्रह्मज्ञानं विज्ञानं वा तेन चितम्=पुष्टं यत् तत् अञ्चितम्। अंमान्तो ब्रह्मसंवादे परब्रह्मप्रवाचकः ।। १९ ।। व्यसने व्याधिते व्याधौ ज्ञानविज्ञानवेदने। [एकाक्षरनाममालिका प. १९२०] इति विश्वशम्भुः । यद् वा, अम् अनुस्वारस्तेन चितं यत् तत् अञ्चितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy