________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः अं अः अनुस्वारविसर्गों [सि.हे. १/१/९ ] इति श्रीहेमसूरिपादाः । अंइति अनुस्वारे [पाणिनि ८/२/१ टीकायां] इति पाणिनिश्च। सिद्धान्तस्य प्राकृतत्वात् प्रचुरानुस्वारत्वाद् विसर्गाभावत्वाच्च युक्तं विशेषणम् । सत्क्रियाच्च तदञ्चितं च इति कर्मधारये सत्क्रि यादञ्चितम् । यद् वा, क्रिया कायव्यापारः । क्रियाकरणचेष्टयोः [अनेकार्थ. २/३५५] इति हैमः । चेष्टा-कायकृतो व्यापार: [अनेकार्थटीका. ] इति तत् टीका। सती शोभना क्रिया प्रतिक्रमणसामायिकपोषधव्रताघनुष्ठाने सिद्धान्तोक्तेर्यादिसमिति यत् नानवद्यः कायव्यापारो यस्मिन् तत् सक्रियम्। अर्थात् प्रतिक्रमणादिकं तत्र अड्डन्ति ये ते सत्क्रियादः साधवः श्रावका वा। अद्ड् अभियोगे दोपान्त्यः, भ्वादिः परस्मैपदी। क्विपि, पदस्य इति संयोगान्तलोपे अद् अत् तैरञ्चितम्=प्राप्तं यत् तत् सत्क्रि यादञ्चितम् । यद् वा, अञ्चण विशेषणे [सि.धा. १७३०] विशेषणम् =अतिशयः। अञ्चयति अर्थ व्यक्तीकरोति इत्यर्थः । सत्क्रियस्य प्रतिक्रमणस्य अत्-ज्ञानं सत्क्रियात्। अत सातत्यगमने, सातत्यगमनं नित्यगतिः, गत्यर्थानां ज्ञानार्थत्वात् क्विप्, क्विप् प्रत्ययस्य स्त्रीलिङ्गत्वात्। सा अञ्चिता व्यक्तीकृता यत्र तत् सत्क्रियादञ्चितं तत्।
पुनः कथम्भूतं अथासनम् ? निर्जरानन्दनम्, निर्जरया कर्मक्षपणया आनन्दयति साधून् यत् तत् निर्जरानन्दनम्। सिद्धान्ताध्ययनात् साधोः कर्मक्षपणा सद्भावात्। यदुक्तं श्री स्थानाङ्गे तृतीये स्थाने चतुर्थोद्देशे
तिहिं ठाणेहिं समणे णिग्गंथे महाणिज्जरे महापज्जवसाणे भवइ । तंकया णं अहं अप्पं वा बहुं वा सुअंअहिजिस्सामि। [स्थान ३, उद्देशक ४, सूत्र २१०] इत्यादि इति।
__ पुनः कथम्भूतम् अशासनम् ? सर्वदाशासनम्, सर्वदा निरन्तरं शासनम् आज्ञा शिक्षा वा उत्सर्गापवादमार्गयोर्यस्मिन् तत् सर्वदाशासनम्। सिद्धान्तस्य उत्सर्गापवादमार्गयोर्नित्यत्वात्। शासनं नृपदत्तो| शास्त्राज्ञालेखशास्तिषु । [अनेकार्थ. ३/४५३] इति वाक्यात्। दाश: धीवरः स इव हिंसकत्वात्। दाश: दयारहितः पापफलानवबोधी हिंसकलोकः । सर्वश्चासौ दाशश्च सर्वदाशः तस्य आसनं-निरसनं यस्मिन् तत् सर्वदाशासनम्, तत्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org