________________
__५३
श्री अजितनाथस्तुतिः
पुनः कथम्भूतम् अशासनम् ? निर्जरानन्दनम्, निरा अतिशयेन जरा-शरीरं दुःखं येषां ते निर्जराः, संसारिणो जीवाः । यदुक्तं श्रीभगवत्यङ्गे षोडशे शते द्वितीयोद्देशे
रायगिहे जाव एवं वयासि। जीवाणं भंते किं जरा सोगे?, गोअमा, जीवाणं जरा वि सोगे वि।से केणढे णं भंते जाव सोगे वि। गोअमा, जेणं जीवा सारीरं वेअणं वेदेति, तेसि णं जीवाणं जरा। जेणं जीवा माणसं वेअणं वेदेति, तेसि णं जीवाणं सोगे से तेणढे णं जाव सोगे वि। एवं नेर इयाण वि। एवं जाव थणिअकुमाराणं। [शतक १६. उद्देशक २, सूत्र ५६६ ] इति। अस्य वृत्तिश्च
रायगिहे इत्यादि। जरत्ति, जृ वयोहानौ [ ] इति वचनात् । जरणं जरा= वयोहानिः, शरीरदुःखरूपा चेयम्, अतो यद् अन्यदपि शारीरं दुःखं तदनयोपलक्षितम्। ततश्च जीवानां किं जरा भवति, सोगेत्ति, शोचनं शोकः, दैन्यमुपलक्षणत्वात्, एवञ्चास्य सकलमानसदुःखपरिग्रहः, ततश्च उत शोको भवतीति । चतुर्विंशतिदण्डके च [येषां शरीरं] तेषा जरा, येषां नु मनोऽप्यस्ति तेषामुभयमपि। [अभयदेवीया टीका पृ. ७००] इति। ततो निर्जरान् संसारिजीवान् आनन्दं नित्यनिरतिशयसुखाभिव्यक्तिं नयति-प्रापयति यत् तत् निर्जरानन्दनम्। डः प्रत्ययः। आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्। [ ] इति श्रवणात्। तत् । निः इत्यत्र शब्दो न तु अव्ययम् । यत् निघण्टुः
निः स्यादतिशयवाची गत्यर्थे निर्गतार्थे च। शब्दत्वमव्ययत्वं द्वयमपि भजते न सन्देहः। इति।
इति तृतीयस्तुतेर्द्वितीयोऽर्थः ।।३।। साम्प्रतं तुरीयस्तुतिस्तवनीयाम् अजितबलानाम्नीं जिनोपासिकां आशीर्वादपूर्वकं श्लाघमानः प्राह
कामदाऽनक्षमाऽकामदाऽऽनक्षमा, नव्यपद्मासना नव्यपद्मासना। देवताऽवोदितादेव तावोदिता
साऽमला भारती सामला भारती।।४।। इति श्रीमजितनापथस्य अपरार्थतः स्तुतिः। कृ तिरि यञ्च श्रीजयसागरमहोपाध्यायमिश्राणाम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org