________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
कामदेत्यादि । सा त्वं देवता - सुरी, प्रस्तावादिह अजितबलानाम्नी साम्लक्ष्मीं शोभां, लक्ष्मीशोभयोरभेदेन विवक्षितत्वात्, उदितात् = प्राप्नुहि । इण्क् गतौ [सि.धा. १०७५]अदादि: परस्मैपदी । गत्यर्थानां प्राप्त्यर्थत्वात्। एव इति अव्ययम् अवधारणे नियोगे । वा ।
सा का ? यत्तदोर्नित्याभिसम्बन्धात्, यत्वं, भम् = भयम्, भम् नक्षत्रं भयं ब्रह्मं [एकाक्षरनाममाला प. ७६ ] इत्यादि सौभरिवाक्यात् । अरतिः=पदार्थेषु अप्रीतिः, ततो द्वन्द्वे भारती भयाप्रीतिः इत्यर्थः । ते कर्मतापन्ने अलाः । तयोस्सर्वथा विध्वंसनविधानेन अग्रहीः । अथ देवतां विशेषणैर्विशिनष्टि - कथम्भूता देवता ? कामदा, कं= सुखं तेन आ=समन्ताद् अविनश्वरत्वात् मदः = हर्षो यस्याः सा कामदा । यद् वा, कामस्य इन्द्रियभोगस्य दः=दानं यस्याः सा कामदा । कामः स्मरेच्छाकाम्येषु [ अनेकार्थ. २/३२२] इति। काम्यम्-इन्द्रियभोग्यम् [ ] इति तट्टीका । इन्द्रियभोग्यवस्तूनां दायिका इत्यर्थः ।
पुनः कथम्भूता देवता ? अनक्षमा, न क्षमा अक्षमा असमर्था । न अक्षमा अनक्षमा, सेवकाभीष्टार्थसिद्धिविधाने [सर्वथा ] समर्था इत्यर्थः । यद् वा, णक्ष गतौ भ्वादि: परस्मैपदी । पाठ इति णस्य नत्वे, न क्षति गच्छति, अचि, नक्षा गमनशीला इत्यर्थः । न विद्यते नक्षा मा लक्ष्मीर्यस्याः सा अनक्षमा, शश्वल्लक्ष्मीका इत्यर्थः । यद् वा, अनन्ति= प्राणन्ति ये ते अनाः, अर्थात् प्राणिनः तेषां क्षमा=हिता या सा अनक्षमा। देवतायाः समस्तप्राणिनां हितकारिणीत्वात् । क्षमः शक्ते हिते [अनेकार्थ. २/३२१] इति वाक्यात् । यद् वा, क्षमा = क्षान्तिः, न क्षमा अक्षमा कोपः । न विद्यते अक्षमा- कोपो यस्यां सा अनक्षमा । सत्यपराधे सेवक परि अकोपना इत्यर्थः ।
५४
पुनः कथम्भूता देवता ? अकामदा, 'अकं दुःखाघयो:' [अनेकार्थ. २/१] इति वाक्यात् । अकम्=पापं तस्मिन् न विद्यते मदः- हर्षो यस्याः सा अकामदा । यद् वा, को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमे [ अनेकार्थ. १/५] इति हैमानेकार्थः । ततो न विद्यते कः = यमः कालरूपो दुःखदायित्वात् यस्याः सा अका । यत्प्रसादाद्धि यमोऽपि न दुःखदायी, अतो युक्तं विशेषणम् । आमान् = रोगान् द्यति-खण्डयति या सा आमदा। आम आमय आकल्यमुपतापो गदः समा । [अभिधान. ४६३] इति अभिधानचिन्तामणिः । ततः कर्मधारये अकामदा ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org