________________
श्री अजितनाथस्तुतिः
पुनः कथम्भूता देवता? आनक्षमा, अनश्वसक् प्राणने, घञि। आना:प्राणास्तैः क्षमा समर्था या सा आनक्षमा।
पुनः कथम्भूता देवता? नव्यपद्मासना, नव्या नवा प्रतिदिनमधिकरमणीयात्वात्, पद्मा लक्ष्मीस्तस्या असनम् दीप्तिः सत्ता वा यस्यां यस्या वा नव्यपद्मासना। अषी असी गत्यादानयोश्च, चकाराद् दीप्तौ इति धातुपारायणम्। 'अनट' [सि.हे. ५/३/१२४] इति अनट्। 'टकार उत्तरत्र ड्यर्थः' [ ] इति वृत्तौ । एतदर्थश्चिन्त्यः । नव्यपद्मासना सजीवा हंसगमना नीत्वा। अस् भुवि'[सि.धा. ११०२], अनटि, असनम् । स्यान्नवेति चिन्त्यम्।
पुनः कथम्भूता देवता? नव्यपद्मासना, पद्मम्=पद्मनामसंख्याविशेषम् असन्ति प्राप्नुवन्ति ये ते पद्मासाः । पद्मो व्यूहे निधावहौ, संख्याब्जयो [अनेकार्थ. २/३३२] इति । अषी असी गत्यादानयोश्च, चकाराद् दीप्तौ इति धातुपारायणम्। गत्यर्थानां प्राप्त्यर्थत्वात् । अच् प्रत्ययः । पद्मासाश्च ते नाश्च-नराः पद्मासनाः । नो नरे च सनाथेऽपि [एकाक्षरनाममालिका प. ७६] इति विश्वशम्भुः । ततो नव्या-स्तोतुं योग्या, पद्मासनानां पद्मसंख्यनराणां या सा नव्यपद्मासना। अनेकसेवकनरस्तवनीया इत्यर्थः । यद् वा, पद्मशब्देन चत्वारिंशद्वर्षदेशीयस्य गजस्य गात्रे शोणाः बिन्दव उच्यन्ते । यद् अनेकार्थः-पद्ममिभबिन्दौ [अने. २/३३२] इति। ततः पौः शोणबिन्दुभिः असनम्=दीप्तिर्येषां ते पद्मासना हस्तिनः । अत्र असीधातोर्दीप्त्यर्थस्य अनटि रूपम्। नव्याः स्तवनीयाः पद्मासनाहस्तिनो यस्याः प्रभावादिति गम्यते, सा नव्यपद्मासना। ये हि नरा हस्त्यर्थिनो ध्यायन्ति तेषां हस्तिनाम् अवाप्तिर्यत् प्रभावादिति । यद् वा, पद्मेषु स्वर्णकमलेषु असनम् गमनं चरणन्यासः यस्य स पद्मासनो जिनः, अर्थात् श्रीअजितनाथः । नव्यः स्तवनीयः पद्मासनो यस्याः सा नव्यपद्मासना। यद् वा, अकारप्रश्लेषात् अनव्यपद्मासना, 'अस् भुवि' [सि.धा. ११०२] अनटि, असनम्=भूः सत्ता इत्यर्थः । पद्मात्=कमलात् असनम् सत्ता प्रादुर्भाव इत्यर्थो यस्य स पद्मासनः=ब्रह्मा। पद्मभूः इत्याख्यत्वात् । अनव्यः अस्तवनीयः पद्मासन: ब्रह्मा यस्याः सा अनव्यपद्मासना। यद् वा, अविर्भूपुष्पवत्योः स्त्री [ ] इति वैजयन्ती वचनात् न अविः अनवि:= अरजाः देवतात्वात्, ऋतुवर्जिता इत्यर्थः । न पद्मा अपद्मा=अलक्ष्मीः, लोके अलाछि, अदशा इति भाषा। तस्याः असनम् क्षेपो यस्या सा अपद्मासना अलक्ष्मीनाशिका इत्यर्थः । असूच क्षेपणे [सि.धा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org