________________
५६
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः १२२१]अनट प्रत्ययः। अनविश्चासौ अपद्मासना च इति कर्मधारये अनव्यपद्मासना।
पुनः कथम्भूता देवता? अवा, 'अव रक्षणगतिकान्तिप्रीत्यादिषु' [सि.धा.]अवति-रक्षति कष्टाद्या सा, अवि, अवाकष्टकोटिरक्षाकारिका इत्यर्थः ।
पुनः कथम्भूता देवता? तावोदिता, 'तुंक् वृत्तिहिंसापूरणेषु' [सि.धा. १०७९] अदादिः परस्मैपदी। 'भावाकों:' [सि. हे. ५/३/१८] इति भावे घञि। ताव:=पूरणं, प्रस्तावात् सांसारिकसमीहितपूरणम्। तत्र उदिता-उद्गता या सा तावोदिता, मनोरथफलपूरणोदिता इत्यर्थः । यद् वा, ता-लक्ष्मीस्तस्याः आववृद्धिः उदिता-उत्कर्षेण प्राप्तो यया सा तावोदिता, लक्ष्मीवृद्धिप्राप्ताः इत्यर्थः ।
पुनः कथम्भूता देवता? अमला, न विद्यते मलं कालिमा मनोवाक्कायविषया अशुद्धिर्वा यस्यां सा अमला। देवता हि गौरवर्णाः, सेवकलोकार्तिहरणे च मनोवाक्कायविषयाशुद्धिरहिता च इत्यर्थः । मलशब्द कालिम्नि मनोवाक्कायविषयायाम् अशुद्धौ च [ ] अनेकार्थटीकायां दृष्टः ।
पुनः कथम्भूता देवता? भारती, रतिः स्मरस्त्री, तस्या ई: लक्ष्मी, शोभा, रती। अत्र ईशब्दो ड्यन्तः । अस्य कृष्णस्य स्त्री ई। धवाद् योगात्। [सि.हे. २/४/५९] इति ङी प्रत्ययः । लक्ष्मीशोभयोस्साहचर्यात् ईशब्दः शोभावाची। ततो मया कान्त्या अर्थात् शरीरकान्त्या रतीव कन्दर्पस्त्रीशोभेव या सा भारती । शरीरकान्त्या रतिसमा इत्यर्थः । भांशौ इति वाक्यात्, आबन्तोऽयम्। यद् वा, भारती-वाक्प्रधानावृत्तिः, सेव भारती वाचा वरिष्ठा इत्यर्थः । यथा हि. भारतीवृत्तिर्वचोरचनाप्रधाना तथेयमपि। कैशिक्यारभटी चैव सात्वती भारती तथा। [ ] इति। यद् वा, भरताम् बिभ्रतामियं भारती। ये हि नित्यं चेतसि ध्यायन्ति तेषामभीप्सितदानेन स्वामिनी इत्यर्थः ।
इति चतुर्थ्याः स्तुतेर्द्वितीयोऽर्थः। ४।
इति श्री-खरतरगच्छीय-श्रीजयसागरमहोपाध्याय-सन्तानीय
श्रीज्ञानविमलोपाध्यायशिष्यवादिश्रीवल्लभगणिविरचिता मूलार्थपरिहारेण द्वितीयनवीनार्थविधानेन द्वितीयजिनेश्वर
श्रीमदजितनाथस्तुतिवृत्तिः समाप्ता।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org