SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्री अजितनाथस्तुतिः [ वृत्तिकृता - प्रशस्तिः ] श्रीजिनेश्वरसूरीन्द्राद्यः ख्यातः शोभतेतराम् । नित्योत्कृष्टक्रियाचारो गच्छः खरतराभिधः । । १ ॥ युगप्रधान आभाति जिनचन्न्द्रस्तदीश्वरः । अकब्बरशिलेमाख्य साहिदत्तघनादरः ।। २ ।। तच्छिष्यः साम्प्रतं सम्यग् युवराजं भुनक्त्यलम् । वादिद्विरदसिंहो यो जिनसिंहः स सूरिराट् ।।३ ॥ यो राज्ये कृता वृत्तिः स्तुतेः श्री अजितार्हतः । ज्ञानविमलपाठक शिष्यैः श्रीवल्लभाभिधैः ।। ४।। अत्र वृत्तौ बुधैर्ज्ञेयं व्याख्याद्वयमनिन्दितम् । यदशुद्धं भवेत्तद्धि शोध्यं सम्यक्कृपापरैः । । ५ । । स्तुतिरेषा कृता श्रीमज्जयसागरपाठकैः । यमकस्रग्विणीछन्दोमयी साधारणार्हताम् ।। ६ ।। केनापि विदुषा सार्द्धं विवादादजिताऽर्हतः । वर्णना वर्णिता त्यक्त्वा वास्तवार्थं यथामति ।। ७ ।। नवरसरसादित्यसंख्ये (१६६९) वर्षे सदासुखे। श्रीमद्बोधपुरे राज्ये सूरसिंहमहीपतेः । स्तुतिवृत्तिरियं शश्वद्वाच्यमाना कवीश्वरैः । नन्दताच्छारदादेवीप्रसादाज्जगतीतले ।। ९ ।। इति श्री अजितनाथस्तुतिवृत्तिः समाप्ता । । १. सन्ध्यमावो विचिन्त्यः Jain Education International *** For Personal & Private Use Only ५७ www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy