________________
श्रीश्रीवल्लभोपाध्यायप्रणीतटीकयोपेता
श्री शान्तिनाथ-विषमार्थस्तुतिः।
वाराणं वरणंरणं रणरणं वारारणं वीरणं,
कङ्कालं कुललं कलंकलं कलं कीलं कोकिलम्। तंतानन्तननं तनं तनतनं संतानवीतानकं,
विद्योतं विदितं दुतं दितसुतं विद्याविनोऽदं विदुः॥१॥ अस्य व्याख्या-उ इति सम्बोधने। हे वार! वर एव-संयम एव! "व: प्रमादसान्त्वने' वायौ संयमे" [नानार्थरमाला, एकाक्षरकाण्ड ६४] इति इरुगपदण्डाधिनाथवचनात्। आ=लक्ष्मीः तया राजते शोभते इति वारः, तत्सम्बोधनं हे वार! हे साधो! अहं तम् 'अणम्' आ: जिनाः 'अः स्यादर्हति सिद्धे च' [अपवर्गनाममाला द्वि.रां. १५३] इत्युक्तेः । तेषु णः-प्रकट: सकलक्षुद्रोपद्रवविद्रावणकारित्वेनेति अण: श्रीशान्तिनाथजिनः, तम् अणं श्रीशान्तिजिनं आर=प्राप्तवान् । देवत्वेन ध्येयत्वेन वा इति गम्यम् । तम् इति कम् ? यत्तदोर्नित्यसम्बन्धात् यम् अणं 'विद्याविनः' विद्यया बुद्ध्या अवन्ति–दीप्यन्ते इत्येवंशीला विद्याविनः पण्डिताः, 'दितसुतं' दितम् खण्डितं सुतम्=पीडा येन स दितसुतः तं दिसुतं एवम्विधं विदुः=जानन्ति । ""जन् सन्धाक्लेदपीडमस्थे" इत्युक्तेः । “नपुंसके क्तः" [पा.सू.३.३.११४] इति क्ते सिद्धिः । श्रीशान्तिनाथो हि गर्भावासानन्तरं देशनगरग्रामविविधोग्रोपद्रवविद्रावणं विहितमिति युक्तमिदं विशेषणम्। अथ शान्तिजिनो द्वितीयान्तविशेषणैर्वर्ण्यते किम्भूतं अणम् ? वरणम्' 'वृञ् वरणे' [पा.धा.१३३४] वृणाति मुक्तिश्रियमिति वरणस्तम्। 'तृकृशृ' [सि.हे.उ.सू.१८७] इति अणः । पुनः किम्विशिष्टम् अणम्? 'रणम्' 'रण व्रण रुति' रणति-द्विविधं धर्मं कथयतीति अचि प्रत्यये रणस्तम्। पुनः किम्विशिष्टं अणम् ? 'रणरणम्' 'रण् गतौ' [सि.धा. १०३९]रणणं रणः गमनं नाशनमिति यावत्। रणस्य सङ्ग्रामस्य रण:=नाशनं यस्येति रणरणस्तम्। शत्रूणामभावात् तदभावः इत्यर्थः । पुनः किम्विशिष्टं अणम्? १. मुद्रितसंस्करणे 'व: पुमान् सान्त्वने'।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org