________________
श्री शान्तिनाथ-विषमार्थस्तुतिः
५९ 'अरणम्' रणशब्दः प्रस्तावाद् अपशब्दः स न विद्यते यस्य स अरणस्तम्। पुनः किम्विशिष्टं अणम् ? 'वीरणम्' वीरेषु-सुभटेषु णः-प्रकटो यः सः वीरणस्तम्। 'णः प्रकटे' [एकाक्षरनाममाला, श्लो. २२] इति सुधाकलशवचनात् । पुनः किम्विशिष्टम् ? 'कङ्कालम्' "कङ्क व्रजने' [पा.धा.९७] गत्यर्थानां ज्ञानार्थत्वात् कङ्कनं कङ्क:-ज्ञानं केवलज्ञानलक्षणं तेन अलते-शोभते कङ्कालस्तम्। 'अलज् वारणपर्याप्तिभूषासु' [पा.धा.५५२] इति वचनात्। पुनः किम्विशिष्टम्? 'कुललम्' कुलानि शरीराणि औदारिकादीनि तानि लुनातीति। "लूञ् छेदने" [पा.धा. १५८०] ड प्रत्यये, कुललस्तम्। मुक्तावस्थायां विशेषणमिदम्। पुनः किम्विशिष्टम् ? कलंकलकलम्"रक लकक् स्वाद आपने" [पा.धा. १८७३७४] अलिलकः, कलङ्कानां = दोषाणां लक: आपनं येभ्यस्तानि कलङ्कलकलस्तम्। पुनः किम्विशिष्टम् ? 'कीलम्' की: लक्ष्मीः। "कीर्गजस्तुरगो व्यालो जारो जीव पिपीलिका। धरा रमा च" [एकाक्षरनाममाला श्लो. १८] इति सौभरिवचनात्। तां मिलति प्राप्नोतीति कीलस्तम्। "इलथ् शये गतौ"१ [कविकल्पद्रुम. षष्ठपल्लव, १७] इति कविकल्पद्रुमोक्तेः । पुनः किं विशिष्टम् अणम् ? कलम?-मनोज्ञम्। पुनः किम्विशिष्टम् ? 'कोकिलम्' रत्नयोरैक्यात् 'कोकिरम्'। "कुक आदाने" [पा.धा. ९४] कोकन्ते उपदेशेन प्रतिबुद्धास्सन्तो यतिधर्मं श्रावकधर्मं वा गृह्णन्ति-अङ्गीकुर्वन्ति इत्येवंशीला: कोकिन:-मुनयः श्रावकाः वा तैः राजते शोभते इति कोकिरस्तम्। पुनः किम्विशिष्टम् अणम्? 'तानन्तननम्' तायाः-लक्ष्म्याः न विद्यते अन्तो येषां ते तानन्तास्ते च ते नाश्च-नश: तानन्तना: चक्रवर्त्यादयः "नो नरे" [एकाक्षरनाममालिका ७६] इति विश्वशम्भूक्तेः। तेषां नः=ज्ञानं यस्मात् स तानन्तननस्तम्। “नो बुद्धौ ज्ञानबन्धयोः" [एकाक्षरनाममाला श्लो. २७] इति सुधाकलशोक्तेः। पुनः किम्विशिष्टम् अणम् ? 'तनम्' तनति=शरणागतानां लोकानां उपकारं करोतीति तनस्तम्। "तनु व्युपहतौ श्रद्धाघाते श्रद्धोपकारयोः" [ अजन्तः । पुनः किम्विशिष्टम् अणम् ? तनतनम्' तः शान्तः "त: प्रेते निष्फले शान्ते" [एकाक्षरनाममालिका ६०] इति विश्वशम्भूक्तेः। नता:=नम्रीभूता नाः जराः यस्मिन् सः नतनः । तश्चासौ नतनश्च तनतनस्तम्। पुनः किम्विशिष्टं १. मुद्रितसंस्करणे- इलत् क्षेपणगमतस्वप्नेषु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org