________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः अणम् ? 'संतानवीतानकम्' "तनु व्युपहतौ श्रद्धाघाते श्रद्धापकारयोः"
] घजि । तानः, सत्-सम्यक् तान:= श्रद्धादानादौ यस्मात् स संतानः । “अन् प्राणने" [पा.धा. ११४६] अनः, स्वार्थे के, अनकः, वीत:=गतो अनक:=द्रव्यप्राणधारणं यस्मात् स वीतानकः । सिद्धावस्थायामिदं विशेषणम्। संतानश्चासौ वीतानकश्च संतानवीतानकस्तम्। पुनः किं विशिष्टम् अणम् ? 'विद्योतम्' "द्युत दीप्तौ" [पा.धा. ७९७] घञि, द्योतः, विशिष्टो द्योतः प्रकाशोऽस्येति विद्योतस्तम्। पुन: किम्विशिष्अं अणम्? विदितंविख्यातम्। पुनः किम्विशिष्टम् अणम् ? 'दुतम्' 'दुं गतौ' [पा.धा. १०१०] क्विबन्तः । दवते गच्छति मुक्तिश्रियं प्राप्नोतीति दुत् तम्। गत्यर्थानां प्राप्त्यर्थत्वात्। पुनः किम्विशिष्टम् अणम् ? 'अदम्' न विद्यते दः-छेदो यस्य यस्माद् वा स अदस्तम्। “दः पुंसि दातरि छेदे" [नानार्थरत्नमाला, एकाक्षर कां. ४१] इति इरुगपदोक्तेः । यद् वा, अदः=दाता तम् । एवम्विधं अणं= श्रीशान्तिनाथजिनम् अहं प्राप्तवान् इति वृत्तार्थः ।। १ ।।
___ अथ द्वितीये सर्वजिनस्तुतिमाहवेतालं विरलं रलं रलरलं विस्तारतारं तरं, चाणरं चरणं चरं वणवणं वीकारकारागृहम्। मायामोहमयं मया मयमयां वात्सल्यवंशोद्भवं, वृन्दं चामरमारमेरुमरणं मोरारिमारोत्सवम्।। २।।
व्याख्या-'मयमयाम्' 'मयङ् गतौ' [पा.धा. ५१०] अजन्तः । गत्यर्थानां ज्ञानार्थत्वात्। मयन्ते वस्तुजातं जानन्तीति मया: चतुर्ज्ञानधराः तेषां मा लक्ष्मीस्तस्या ई : = प्राप्तिर्येभ्यस्ते मयमयः। ई ल् कान्तिगतिव्याप्तिक्षेपप्रजनखादने '[ ]क्विबन्तः। तेषां मयमयां-चतुर्विंशतितीर्थकृतां वृन्दं-समूहं वन्दे इति अध्याहार्यम् । किम्भूतं वृन्दम्? वेतालं वेन संयमेन इतं गतं आलम् अनर्थदण्डो यस्मादिति वेतालं तत्। 'आलं स्यादनर्थहरितालयोः' [अनेकार्थसंग्रह ४८६] इत्युक्तत्वात्। पुनः किम्विशिष्टं वृन्दम्? 'विरलम्' परस्परं= सान्तरम्। पुनः किम्विशिष्टं वृन्दम् ? 'रलम्' रम् कामं लुनातीति रलं तत्। 'र: कामे' [एकाक्षरनाममाला ३६] इति सुधाकलशोक्तेः। पुनः किम्विशिष्टं वृन्दम् ? 'रलरलम्' राणां नराणां, 'र: कामे तीक्ष्णे वैश्वानरे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org