________________
६१
श्री शान्तिनाथ - विषमार्थस्तुतिः
E
नरे' [एकाक्षरनाममाला ३६ ] इति सुधाकलशोक्तेः । लम् सुखं, 'लं लक्षणं सुखम्' [एकाक्षरनामाला ८४] इति सौभरिवचनात्। राति=दाति या सा रलरा=पुरुषसुखदा, एवम्विधा ला- लक्ष्मीः संयम श्रीर्यस्य तत् रलरलं तत् । 'ला लक्ष्मी:' [एकाक्षरनाममालिका १०४] इति विश्वशम्भूक्तेः । पुनः किम्विशिष्टं मयमयां वृन्दम् ? विस्तारतारम् विस्तारं प्रस्तावाद् भव्यजनवृन्दं तारयति संसारसागरादिति विस्तारतारं तत् । पुनः किम्विशिष्टम् ? तरं तरन्ति अपारसंसारसागरमात्मना इति तरं तत् । पुनः किम्विशिष्टम् ? 'चरम् ' चरति=आचरतीति चरत् तत् । किं तत् ? चरणम् = चारित्रम् । किम्भूतं चरणम् ? ‘चाणूरम्’=चाणूरमल्ल इव दुष्टाष्टकर्मप्रतिमल्लमथने प्रत्यक्षत्वात् चाणूरस्तम् । पुनः किम्विशिष्टं वृन्दम् ?‘व्रणव्रणम्' व्रणशब्देन समयभाषया 'अतीचारा' प्रोच्यन्ते । व्रणान्-अतीचारान् ब्रणति कथयति यद् इति व्रणव्रणं तत् । ' व्रण शब्दे' [पा.धा. ४८०] अजन्तः । पुनः किम्विशिष्टं वृन्दम् ? 'वीकार कारागृहम् ' ईल् दीप्तौ [ ] इत्युक्तेः । क्विपि । ई:, विशिष्टा ई: वी : - विशिष्टशोभा तस्याः कारकं =कर्तृ वीकारकम्, आ=समन्तात् रा=समृद्धिस्तस्यां गृहं=सद्म आरागृहं तत् । रा लक्ष्मीः समृद्धिः स्यात् [ सौभरि एकाक्षरनाममाला ८२] इत्युक्तेः । पुनः किम्विशिष्टं वृन्दम् ? ‘मायामोहमयम्' मायामोहौ मयन्ते नाशयति यत् मायामोहमयं तत् । कया ? मया-लक्ष्म्या संयमश्रिया इत्यर्थः । पुनः कथम्भूतम् ? ' वात्सल्यवंशोद्भवं' वत्सल्यस्य भावो वात्सल्यम्, वात्सल्येन = वात्सल्यगुणेन प्रधानो वंशो वात्सल्यवंशः=इक्ष्वाक्वादिकुलं तत्र उद्भवः उत्पत्तिर्यस्येति तत् । यद् वा, भिन्नपदेन ‘वात्सल्यवं' वात्सल्यं=वत्सलत्वं तद् वातयति= भजते भक्तजनेष्विति वात्सल्यवं तत् । 'वा- तण् गतिसुखसेवनयों: ' [पा.धा. २०३०] इति वचनात् । ड प्रत्यये सिद्धम्। पुनः किम्विशिष्टं मयमयां वृन्दम् ?' शोद्भवनम् ' शस्य = श्रेयसः कीर्त्या वा उद्भवो यस्मादिति शोद्भवं तत् । 'शं क्लीबे शास्त्रे श्रेयसि मङ्गले कीर्ती' [नानार्थरत्नमाला एकाक्षरकाण्ड ६८ ] इति इरुगपदण्डाधिनाथोक्तेः। चकारः पादपूर्ती । पुनः किम्विशिष्टं वृन्दम् ? अमरम् - मरणरहितम् । पुनः किम्विशिष्टं वृन्दम् ? ‘आरमेरुम्' ऋः = देवमाता तस्या इमे आरा:-देवाः तेषां मेरुरिव सेव्यत्वेनेति आरमेरुस्तम् । मेरुशब्दस्य आविष्टलिङ्गत्वात् पुंस्त्वनिर्देशः । यथा हि देवानां मेरुः सेव्यो भवति तथा मयमयां वृन्दमपि । पुनः किम्विशिष्टं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org