Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 260
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम् ] [२४७ संवर्तकवायवस्ते, यैर्वायुभिस्तृणादय एकस्मात्स्थानात्स्थानान्तरं नीयन्ते, एवमादयोऽनेकधा व्याख्याताः, परं वायुजातिसामान्येनैकविधा अनानात्वास्तीर्थकरैस्ते सूक्ष्मवायुकायजीवा व्याख्याताः ॥ ११९ ॥ सुहमा सव्वलोयम्मि, लोगदेसे य बायरा । एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ १२० ॥ सूक्ष्मा वायुकायजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मकलोके स्थिताः सन्ति । बादरा वायुकायजीवा लोकैकदेशे स्थिताः सन्तीति क्षेत्रविभाग उक्तः । इतोऽनन्तरं तेषां वायुकायजीवानां चतुर्विधं कालविभागं वक्ष्ये ॥ १२० ॥ संतई पप्पणाइया, अपज्जवसियावि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१२१ ॥ सन्ततिं प्रवाहमार्गमाश्रित्य वायुकायजीवा अनादयस्तथाऽपर्यवसिता अपि । पुनः स्थितिं प्रतीत्य ते सादिकाः सपर्यवसिताश्च वर्तन्ते ॥ १२१ ॥ तिन्नेव सहस्साइं, वासाणुक्कोसिया भवे । आउठिई वाऊणं, अंतोमुहुत्तं जहन्निया ॥१२२ ॥ वायूनां-वायुकायजीवानां त्रीणि वर्षसहस्राण्युत्कृष्टायुः स्थितिर्भवति । जयन्यिका स्थितिरन्तर्मुहूर्तं भवति ॥ १२२ ॥ अथ कायस्थितिमाह असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायठिई वाउणं, तं कायं तु अमुंचओ ॥१२३ ॥ वायूनां-वायुकायजीवानां स्वं कायं वायुकायममुञ्चतामसङ्ख्येयकालमुत्कृष्टा स्थितियाख्याता, जघन्यिका स्थितिरन्तर्मुहूर्तं भवति । वायुकायाच्च्युत्वा पुनर्वायुकाये एवोत्पद्यते, तदोत्कृष्टासङ्ख्येयकालं, जघन्यतश्चाप्यन्तर्मुहूर्तं स्थितिर्व्याख्यातेत्यर्थः ॥१२३॥ अथ कालस्यान्तरमाह अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, वाउजीवाणमंतरं ॥१२४॥ वायुजीवानां स्वकीये काये त्यक्ते सत्युत्कृष्टमनन्तकालं, जघन्यमन्तर्मुहूर्तमन्तरं भवति । एतावता वायुकायस्थो जीवो वायुकायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनर्वायु-काये

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326