Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 286
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम् ] [२७३ परिमितमेव स्तोकमेवाचाम्लं तपस्तस्मिन् संवत्सरे कुर्यात् । कोऽर्थः ? पूर्वस्मिन् संवत्सरार्धेऽस्मिन् संवत्सरार्धे च, एवमेकादशे संवत्सरे चतुर्थषष्ठाष्टमद्वादशादीनां पारणे आचाम्लं विदध्यादित्यर्थः । ततः कोटीसहितं तपः स्यात् ॥ २५८ ॥ इत्थमेकादशसु वर्षेषु व्यतीतेषु द्वादशवर्षे यत्कुर्यात्तदाह-कोटीभ्यां प्रत्याख्यानस्याद्यन्ताभ्यां सहितं तपो द्वादशे संवत्सरे मुनिः कुर्यात् । कोऽर्थः ? विवक्षितदिने प्रभातसमये आचाम्लप्रत्याखानं कृत्वा पुनर्द्वितीयदिने तपोऽन्तरं विधाय तस्यान्ते पुनराचाम्लामिति 'कोटीसहितमुच्यते । इत्यनेन द्वादशवर्षाणि तपः कुर्यात् । तु पुनः पश्चान्मासिकेन, तु पुनरर्धमासिकेनाहारेण, अर्थान्मासक्षपणप्रत्याख्यानेन, तथार्धमासक्षपणेनाहारेणेत्याहारानादरणेन तपः प्रस्तावाद्भक्तपरिज्ञयाऽनशनरूपं तपश्चरेत् । एतद्विस्तरस्तु निशीथचूर्णितोऽवसेयः ।। २५९ ॥ अङ्गीकृतानशनस्याऽशुभभावनापरिहारः कर्त्तव्यः, अतोऽशुभभावनाज्ञापनार्थमाह कंदप्पमाभिओगं, किव्विसियं मोहमासुरत्तं च । एयाओ दुग्गईओ, मरणंमि विराहिया हुंति ॥ २६० ॥ एताः पञ्च भावना विराधिकाः सम्यग्दर्शनचारित्रादीनां भङ्गकराः सत्यो मरणान्तेमरणसमये दुर्गतयो दुर्गतिकारणत्वाद् दुर्गतयो भवन्ति । कारणे कार्योपचारः । एताः का भावनाः ? कन्दर्प इति कन्दर्पभावना, पदैकदेशे पदसमुदायोपचारात्, एवमाभियोग्यभावना, किल्बिषिभावना, मोहभावना, असुरत्वभावना, दुर्गतिश्चात्र, अर्थाद् देवदुर्गतिः स्यात् । तद्वशाद्वयवहारेण चारित्रे सत्यपि तादृग्देवनिकायोत्पत्तौ चारित्रभावेन नानागतिभाक्त्वं स्यात् । यदुक्तं "यः संशयमपि कु र्या-देतासु भावनासु मनुजस्तु । स च गच्छेत् सुरयो नौ, यत्र हि चारित्रहीनत्वं ॥ १ ॥" मरणसमये यादृशी मतिस्तादृशी गतिः स्यादिति दर्शितम् । मरणसमये यद्येता भावना न स्युस्तदा सुगतिः स्यादित्यर्थः ॥ २६० ॥ मिच्छादसणरत्ता, सनियाणा हु हिंसगा। इइ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥२६१ ॥ इत्यमुना प्रकारेण ये जीवा म्रियन्ते, तेषां जीवानां पुनर्जन्मान्तरे बोधिजैनधर्मरुचिदुर्लभा-दुष्प्रापा भवेत् । इतीति किं ? ये जीवा मिथ्यादर्शनरताः, अतत्वे तत्त्वाभिनिवेश१ कोटावग्रभावे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिंस्तत्कोटीसहितम्।कोऽर्थः ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय, तच्चाहोरात्रं प्रतिपाल्य पुनर्द्वितीयेऽह्नि आचाम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारम्भकोटिः, आद्यस्य तु पर्यन्तकोटिः, उभे अपि मिलिते भवतः, इति तत्कोटीसहितमुच्यते इत्यन्ये।

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326