Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 284
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम् ] [ २७१ देवानां स्वकीये काये त्यक्ते सति वनस्पतिकाये व्रजति, तदोत्कृष्टमन्तरमनन्तकालं भवेत् । जघन्यतोऽन्तरमन्तर्मुहूर्तं भवेत् ॥ २४८ ॥ 'अनंतकालमुक्कोसं, वासपुहत्तं जहन्नयं । आणयाईण देवाणां, गेविज्जाणं तु अंतरं ॥ २४९ ॥ आनतादीनां नवमदेवलोकादीनां तु पुनग्रैवेयकाणां नवानाम्, उपलक्षणत्वात्तत्र वासिनां देवानां स्वस्थानाच्च्युत्वाऽन्यत्र संसारे निगोदे समुत्पन्नानाम्, पश्चात्पुनः स्वस्थाने आगच्छतामुत्कृष्टं चेत्कालान्तरं भवेत्, तदानन्तकालान्तरं भवेत् । जघन्यं चेदन्तरं भवेत्तदा वर्षपृथक्त्वं नववर्षाणि यावद्भवतीत्यर्थः ॥ २४९ ॥ संखेज्जसागरुक्कोसं, वासपुहुत्तं जहन्नयं । अणुत्तराण य देवाणं, अंतरं तु वियाहियं ॥ २५० ॥ अनुत्तराणां देवानां च्यवनं भूत्वा पुनश्चेत्तत्रैवोत्पत्तिः स्यात्तदा कियदन्तरं भवेत्तदाहउत्कृष्टं तु सङ्ख्येयसागरोपमाण्यन्तरं व्याख्यातम्, जघन्यं तु वर्षपृथक्त्वं, नववर्षाणि यावत् ॥ २५० ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २५१ ॥ एतेषां देवानां चतुर्निकायानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भवन्ति, अनेके भेदा भवन्ति ॥ २५९ ॥ अथ निगमयितुमाह संसारत्थाय सिद्धा य, इइ जीवा वियाहिया । रूविणो चेवऽरूवी य, अजीवा दुविहा वि य ॥ २५२ ॥ संसारस्थाश्च जीवाः सिद्धाश्च जीवा इत्यमुना प्रकारेण व्याख्याताः । च पुना रूपिणोरूपिणोऽजीवाश्च व्याख्याता द्विविधा अपि कथिताः ।। २५२ ॥ अथोपदेशमाह इइ जीवमजीवे य, सुच्चा सद्दहिऊण य । सव्वनयाणमणुमए, रमिज्जा संजमे मुणी ॥ २५३ ॥ मुनिः साधुरेवममुना प्रकारेण जीवाजीवान् गुरोर्मुखात् श्रुत्वा, पुनः श्रद्धाय संयमे सप्तदशविधे रमेदतिं कुर्यात् । कीदृशे संयमे ? सर्वनयानामनुमते, सर्वे च ते नयाश्च सर्वनया १ इमे द्वे गाथे अन्यस्मिन् संस्करणे न स्तः ॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326