Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२७२]
[-उत्तराध्ययनसूत्रे-भाग-२ नैगमादयः सप्तनयाः, तेषां सर्वनयानां ज्ञानक्रियान्तर्गतानामनुमतेऽभिप्रेते, ज्ञानसहितसम्यक्चारित्ररूपे ॥ २५३ ॥
तओ बहूणि वासाणि, सामण्णमणुपालिया।
इमेण कम्मजोएण, अप्पाणं संलिहे मुणी ॥२५४॥ ततश्चारित्रे रमणानन्तरं बहूनि वर्षाणि श्रामण्यमनुपाल्य मुनिरनेन क्रमयोगेनात्मानं संलिखेत्, दव्यतो भावतश्च कृशीकुर्यात् ॥ २५४ ॥ सम्प्रति संलेखनापूर्वकं क्रमयोगमाह
बारसेव उ वासाइं, संलेहुक्कोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहन्निया ॥२५५ ॥ पढमे वासचउक्क्रमि, विगईनिज्जूहणं करे । बीए वासचउक्कंमि, विचित्तं तु तवं चरे ॥ २५६ ॥ एगंतरमायामं, कटु संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥ २५७ ॥ तओ संवच्छरद्धं तु, विगिटुं तु तवं चरे । परिमियं चेव आयाम, तंमि संवच्छरे करे ॥ २५८ ॥ कोडीसहियमायाम, कटु संवच्छरे मुणी ।
मासद्धमासिएणं तु, आहारेणं तवं चरे ॥ २५९ ॥ द्वादशैव वर्षाण्युत्कृष्टा संलेखना भवेत्, संलेखनं द्रव्यतो भावतश्च कृशत्व करणम्। संलेखना द्रव्यतः शरीरस्य कृशीकरणम्, भावतश्च कषायाणां कृशीकरणम् । संवत्सरमेकवर्ष मध्यमिका संलेखना भवेत्, जघन्यिका संलेखना षण्मासी भवेत् ॥ २५५ ॥
संलेखनायास्त्रैविध्येऽनुक्रममाह-प्रथमे आद्ये वर्षचतुष्के विकृतिनियूहनम्, विकृतीनां पञ्चानां त्यागमाचाम्लनिविकृत्यादितपः कुर्यादित्यर्थः । द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थषष्ठोष्टमादिरूपं तपश्चरेत् ॥ २५६ ॥
ततो द्वौ संवत्सरौ यावदेकेन चतुर्थलक्षणेन तपसान्तरं व्यवधानं यस्मिंस्तदेकान्तरमायाममाचाम्लं कृत्वा तपश्चरेत् । ततस्तदनन्तरं संवत्सरार्धं यावन्मासषट्कं यावदतिविकृष्टमष्टमद्वादशादितपोऽनाचरेन सेवेत ॥ २५७ ॥
ततस्तु संवत्सरार्धं मासषट्कं तु विकृष्टं षष्ठोष्टमादितप आचरेत् । परंतत्रायं विशेषः

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326