Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 288
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम्] [२७५ __ये मनुष्या जिनवचनं न जानन्ति । ज्ञानक्रियाभ्यां मोक्ष इत्यर्हद्वाक्यं न श्रद्दधन्ति ते मनुष्या बहुशो वारंवारं वराका दयाभाजनं सन्तो 'बालमरणाणि' इति प्राकृतत्वात्तृतीयाबहुवचनस्थाने द्वितीयाबहुवचनम्, बालमरणैस्बन्धनविषभक्षणादिमरणैस्तथाऽकाममरणैश्चेच्छां विना क्षुधातृषाशीतातपादिमरणैर्मरिष्यन्ति । तस्माद्भावेन जिनवचनं श्रद्धेयम्, भावस्त्वालोचनया स्यात् । आलोचना त्वालोचनार्हाणां देया, आलोचनायोग्यास्त्वेतैहेतुभिः स्युस्तान् हेतुनाह ॥ २६५ ॥ बहुआगमविन्नाणा, समाहिउप्पायगा य गुणगाही । एएण कारणेणं, अरिहा आलोयणं सोउं ॥ २६६ ॥ एतैः कारणैर्जना आलोचनां श्रोतुमर्हा भवन्ति । तानि कानि कारणानि ? बह्वागमविज्ञानत्वसमाध्युत्पादनत्वगुणग्राहित्वादीन्यालोचनाश्रवणार्हत्वकारणानि ज्ञेयानि । गुणगुणिनोरभेदविवक्षयेमान्येव कारणान्यालोचनाश्रवणार्हाणां विशेषणत्वेन प्रतिपादयति । ते नरा आलोचनां श्रोतुमर्हा भवन्ति । ते इति के ? ये बह्वागमविज्ञानाः, बहुः सूत्रार्थाभ्यां विस्तारो विपुल आगमो बह्वागमस्तस्य विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञाना भवन्ति । च पुनर्ये मुनयः समाध्युत्पादकाः, समाधि देशकालयोग्यैर्मधुरवचनैरन्यस्य स्वास्थ्यमुत्पादयन्तीति समाध्युत्पादका भवन्ति, च पुनर्ये गुणग्राहिणो भवेयुः, परदूषणोद्धाटका न स्युस्ते आलोचनाश्रवणाऱ्या भवेयुरिति भावः ॥ २६६ ॥ अथ कन्ददिभावनानां यत्परिहार्यत्वमुक्तम्, अतस्ताभ्यामेव स्वरूपमाह कंदप्पकुक्कुयाई, तह सीलसहावहासविगहाहिं । विम्हावितो य परं, कंदप्पं भावणं कुणई ॥२६७ ॥ नर: कन्दर्पकौकुच्ये कुर्वन्, तथा शीलस्वभावहास्यविकथादिभिः परमन्यं विस्मापयन् कन्दर्पभावना करोति । कन्दर्पश्च कौकुच्यं च कन्दर्पकौकुच्ये, ते कन्दर्पकौकुच्ये । तत्र कन्दर्पोऽट्टहास्यादिपूर्वं वक्रत्वेन जल्पनम्, कौकुच्यं कायदुश्चेष्टितं वागदुश्चेष्टितं च, एते उभे कुर्वन् जीवः कन्दर्पभावनां जनयति । तथा शीलस्वभावस्य हास्यं शीलस्वभावहास्यम्, शीलस्वभावहास्यं च विकथाश्च शीलस्वभावहास्यविकथाः, ताभिरन्यं साश्चर्यं कुर्वन् कन्दर्पभावनां जनयति ॥ २६७ ॥ मंताजोगं काउं, भूईकम्मं च जे पउंजंति । सायरसइड्डिहेलं, अभिओगं भावणं कुणइ ॥२६८॥ यः पुरुषः सातरसद्धिहेतवे मन्त्रायोगं कृत्वा, मन्त्रं च आयोगश्च मन्त्रायोगम् मन्त्रं -ओंकारादिस्वाहान्तम्, आयोग-औषधीमीलनम्, अथवा मन्त्राणामायोगः- साधनं मन्त्रा

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326