________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२७५ __ये मनुष्या जिनवचनं न जानन्ति । ज्ञानक्रियाभ्यां मोक्ष इत्यर्हद्वाक्यं न श्रद्दधन्ति ते मनुष्या बहुशो वारंवारं वराका दयाभाजनं सन्तो 'बालमरणाणि' इति प्राकृतत्वात्तृतीयाबहुवचनस्थाने द्वितीयाबहुवचनम्, बालमरणैस्बन्धनविषभक्षणादिमरणैस्तथाऽकाममरणैश्चेच्छां विना क्षुधातृषाशीतातपादिमरणैर्मरिष्यन्ति । तस्माद्भावेन जिनवचनं श्रद्धेयम्, भावस्त्वालोचनया स्यात् । आलोचना त्वालोचनार्हाणां देया, आलोचनायोग्यास्त्वेतैहेतुभिः स्युस्तान् हेतुनाह ॥ २६५ ॥
बहुआगमविन्नाणा, समाहिउप्पायगा य गुणगाही ।
एएण कारणेणं, अरिहा आलोयणं सोउं ॥ २६६ ॥ एतैः कारणैर्जना आलोचनां श्रोतुमर्हा भवन्ति । तानि कानि कारणानि ? बह्वागमविज्ञानत्वसमाध्युत्पादनत्वगुणग्राहित्वादीन्यालोचनाश्रवणार्हत्वकारणानि ज्ञेयानि । गुणगुणिनोरभेदविवक्षयेमान्येव कारणान्यालोचनाश्रवणार्हाणां विशेषणत्वेन प्रतिपादयति । ते नरा आलोचनां श्रोतुमर्हा भवन्ति । ते इति के ? ये बह्वागमविज्ञानाः, बहुः सूत्रार्थाभ्यां विस्तारो विपुल आगमो बह्वागमस्तस्य विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञाना भवन्ति । च पुनर्ये मुनयः समाध्युत्पादकाः, समाधि देशकालयोग्यैर्मधुरवचनैरन्यस्य स्वास्थ्यमुत्पादयन्तीति समाध्युत्पादका भवन्ति, च पुनर्ये गुणग्राहिणो भवेयुः, परदूषणोद्धाटका न स्युस्ते आलोचनाश्रवणाऱ्या भवेयुरिति भावः ॥ २६६ ॥ अथ कन्ददिभावनानां यत्परिहार्यत्वमुक्तम्, अतस्ताभ्यामेव स्वरूपमाह
कंदप्पकुक्कुयाई, तह सीलसहावहासविगहाहिं ।
विम्हावितो य परं, कंदप्पं भावणं कुणई ॥२६७ ॥ नर: कन्दर्पकौकुच्ये कुर्वन्, तथा शीलस्वभावहास्यविकथादिभिः परमन्यं विस्मापयन् कन्दर्पभावना करोति । कन्दर्पश्च कौकुच्यं च कन्दर्पकौकुच्ये, ते कन्दर्पकौकुच्ये । तत्र कन्दर्पोऽट्टहास्यादिपूर्वं वक्रत्वेन जल्पनम्, कौकुच्यं कायदुश्चेष्टितं वागदुश्चेष्टितं च, एते उभे कुर्वन् जीवः कन्दर्पभावनां जनयति । तथा शीलस्वभावस्य हास्यं शीलस्वभावहास्यम्, शीलस्वभावहास्यं च विकथाश्च शीलस्वभावहास्यविकथाः, ताभिरन्यं साश्चर्यं कुर्वन् कन्दर्पभावनां जनयति ॥ २६७ ॥
मंताजोगं काउं, भूईकम्मं च जे पउंजंति ।
सायरसइड्डिहेलं, अभिओगं भावणं कुणइ ॥२६८॥ यः पुरुषः सातरसद्धिहेतवे मन्त्रायोगं कृत्वा, मन्त्रं च आयोगश्च मन्त्रायोगम् मन्त्रं -ओंकारादिस्वाहान्तम्, आयोग-औषधीमीलनम्, अथवा मन्त्राणामायोगः- साधनं मन्त्रा