________________
२७६]
[ उत्तराध्ययनसूत्रे-भाग-२ योगस्तं कृत्वा, तता भूत्या-भश्मना मृत्तिकया सूत्रेण वा यत्कर्म तद्भूतिकर्म ; मनुष्याणां तिरश्चां गृहाणां वा रक्षाद्यर्थं कौतुकादिकरणं भूतिकर्म, एतानि सुखार्थं सरसाहारार्थं वस्त्रादिप्राप्त्यर्थं यः साधुः कुर्यात्, स आभियोगिकी भावनां करोति । आभियोगिकीभावनां चोत्पाद्य स आभियोगिदेवत्वेन मृत्वोत्पद्यते इत्यर्थः ।आभियोगदेवा हि देवानामाज्ञाकारिणः किङ्करप्राया दासप्रायाश्च ॥ २६८ ॥
नाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किदिवसियं भावणं कुणई ॥२६९ ॥ स पुरुषः किल्बिषीं भावनां कुरुते, किल्बिषदेवयोनित्वदायिकां भावनामुत्पादयति । स कः ? यः पुरुषो ज्ञानस्य श्रुतज्ञानस्य तथा श्रुतज्ञानवतोऽवर्णवादी भवति । तथा केवलिनः केवलज्ञानिनः केवलदर्शनस्य वाऽवर्णवादी भवति । तथा यः पुरुषो धर्माचार्यस्य धर्मदायकस्याऽवर्णवादी भवति, अयं जातिहीनः, अयं मूर्खः, अयं कषायीत्याद्याशातनाकृद्भवति । तथा सङ्घसाधूनां सङ्घश्च साधवश्च सङ्घसाधवस्तेषां सङ्घसाधूनामवर्णवादी भवति । तथा पुनर्यो मायी, आत्मनः सतोऽवगुणानाच्छादयति, परेषामसतोऽवगुणान् वक्ति, सतो गुणान्न वक्ति, एतादृशो जीवो मृत्वा किल्बिषिदेवत्वेनोत्पद्यते इत्यर्थः ॥ २६९ ॥
अणुबद्धरोसपसरो, तह य निमित्तंमि होइ पडिसेवी ।
एएहिं कारणेहिं, आसुरियं भावणं कुणइ ॥ २७० ॥ एताभ्यां कारणाभ्यां पुरुष आसुरीं भावनां करोति, असुरनिकायोत्पादिकां भावनां जनयति । एतौ को कारणौ ? इत्याह-यः पुरुषोऽनुबद्धरोषप्रसरः, अनुबद्धश्चिरकालस्थायी रोषप्रसर:-क्रोधप्रसरो यस्य सोऽनुबद्धरोषप्रसरः, तथा यः पुरुषो निमित्तेऽतीतानागतवर्तमानरूपे त्रिविधे निमित्ते विषये, अथवा निमित्ते भूमान्तरिक्षादिके प्रतिसेवी भवति,कारणं विनापि शुभाशुभनिमित्तप्रयोक्ता भवति, स मृत्वाऽसुरत्वेनोत्पद्यते इति भावः ॥ २७० ॥
सत्थग्गहणं विसभक्खणं च, जलणं जले पवेसो य ।
अणायारभंडसेवा, जम्मणमरणाणि बंधंति ॥२७१ ॥ यः शस्त्रग्रहणम्, शस्त्राणां खड्गारिकादीनामात्मवधार्थमुदरादौ ग्रहणं शस्त्रग्रहणम्, तथा विषभक्षणं तालुपुटादिकालकूटानामदनम्, तथा ज्वलनमग्निप्रवेशकरणम्, तथा जले प्रवेशकरणं कूपवाप्यादौ बूडनम्, पर्वतादिभ्यः पतनं च शब्दाद् गृह्यते । पुनरनाचार भाण्डसेवा, एतानि कारणानि कुर्वन्तो जना जन्ममरणकारणानि बध्नन्ति, संसारभ्रमणमुत्पादयन्तीत्यर्थः । अत्राचारः शास्त्रोक्तव्यवहारः, न आचारोऽनाचारस्तेन भाण्डस्योपकरणस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा । इयमपि क्लेशोत्पादनादनन्तरभवोत्पादिकेत्यर्थः । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोहीभावनोक्ता यतस्तल्लक्षणं चेदम्