________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२७७ "'उम्मग्गदेसओ मग्ग-नासओ मग्गा विपडिवत्ति य । मोहेण य मोहित्ता, संमोहं भावणं कुणइत्ति ॥ १ ॥" एतासां च फलं यदाहु:"एयाउ भावणाउ, भाविता देवदुग्गइं जंति । तत्तो य चुया संता, पडंति भवसागरमणंतं ॥ २ ॥ इति ॥ २७१ ॥ इइ पाउकरे बुद्धे, नायए परिनिव्वए ।
छत्तीसं उत्तरज्झाए, भवसिद्धीय संमए ॥ २७२ ॥ तिबेमि ॥
ज्ञातको बुद्धस्तीर्थकरो ज्ञातात्-सिद्धार्थकुलान्जात उत्पन्नो ज्ञातजः श्रीमहावीरः परिनिर्वृतो-निर्वाणं गत इत्यन्वयः । किं कृत्वा ? इत्यमुना प्रकारेण षट्त्रिंशत्सङ्ख्यानुत्तराध्यायान् प्रादुष्कृत्य । उत्तराः प्रधाना अध्याया अध्ययनानि, उत्तराश्च तेऽध्यायाश्चोत्तराध्यायाः, तानर्थतः प्रकटीकृत्येत्यर्थः । कीदृशानुत्तराध्यायान् ? भवसिद्धिकसम्मतान्, भवसिद्धिकाभव्यास्तेषां सम्मता मान्याः पठनीयास्तान् ॥ २७२ ॥
इति जीवाजीवविभक्तिनामकमध्ययनं षट्त्रिंशं सम्पूर्णम् ॥३६ ॥
अथ नियुक्तिकार एतेषामध्ययनानां नामान्याह पञ्चगाथाभिः-विणय परीसह चउरंग, असंखयाऽकाममरण खुड्डागं । एलिज्ज काविलिज्जं, नमिपवज्जा य दुमपत्तं ।। १ ।। बहुसुयपुज्ज हरिएस, चित्तसंभूययं च इसुयारं । सभिक्खु बंभचेरंच, पावसमणिज्ज संजईयं ॥ २ ॥ मियापुत्त महनियंठिय, समुद्दपालियज्ज तहय रहनेमि । केसीगोयम समिइयं, जइन्नइज्जं च तह समाचारी ॥ ३ ॥ खलुक मुक्खमग्गं, सम्मत्तपरक्कमं च तवमग्गं । चरणविहि पमायठाणं, तह कम्मपयडि लेसाणं ॥ ४ ॥ अणगारमग्ग जीवाजीवविभत्ति छत्तीस अज्जयणे। जो पढइ सुणइ गुणई, सो पावइ णिज्जरा विउला ॥ ५ ॥ इति श्रीउत्तराध्ययननामसम्बद्धं गाथापञ्चकम् । अथ नियुक्तिकार एवास्य ग्रन्थस्य माहात्म्यमाह
रंजे किर भवसिद्धिया, परित्तसंसारिया य जे भव्वा ।
ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥ १ ॥ किलेति सम्भावनायां ये केचिन्मनुष्या भवसिद्धिका-भव्याः, च पुनः परीत्तसंसारिकास्ते भव्या एतानि षट्त्रिंशदुत्तराध्ययनान्यधीयन्ते, अर्थाद्येऽभव्या बहुलसंसारिणस्ते एतान्युत्तराध्ययनानि नाधीयन्ते - न पठन्ति ॥१॥ १ उन्मार्गदेशनान्मार्गनाशनात, सन्मार्गविप्रतिपत्त्या च ।
मोहेन च मोहित्वा सम्मोहां भावनां करोति इति ॥१॥ २ एताभिर्भावनाभि वित्वा देवदुर्गति यान्ति ।
ततश्च्युत्वा सन्तः पतन्ति भवसागरमनन्तम् ॥२॥ ३ निर्युक्तौ क्रमश: गाथे-५५७-५५८ स्तः ।
- १८