________________
२७८]
[उत्तराध्ययनसूत्रे-भाग-२ 'तम्हा जिणपण्णत्ते, अणंतागमपज्जवेहि संजुत्ते।
अज्झाए जहजोगं, गुरुप्पसाया अहिज्जिज्जा ॥२॥ तस्मात्कारणाज्जिनप्रज्ञप्तानध्यायान् प्रक्रमादुत्तराध्यायान् यथायोगं गुरुप्रसादादधीयेत । यथायोगमिति, योग, उपधानाधुचितव्यापारस्तमनतिक्रम्येति यथायोगम् । गुरूणां प्रसादश्चित्तप्रसन्नता गुरुप्रसादस्तस्माद्धेतोः पठेत् । कथंभूतानुत्ताराध्यायान् ? अनन्तागमपर्यवैः संयुक्तान्, अनन्ताश्च ते आगमाश्चानन्तागमाः शब्दपरिच्छित्तिप्रकाराः । तथा पर्यावाश्चार्थपर्यवरूपाः, अनन्तागमाश्च पर्यवाश्चानन्तागमपर्यवाः, तैरनन्तागमपर्यवैः, शब्दार्थनयैः पर्यायार्थनयैश्च संयुक्तान् ॥२॥
जोगविहीइ वहित्ता, एए जो लहइ सुत्तअत्थं वा ।
भासेइ य भवियजणो, सो पावइ निज्जरा विउला ॥३॥ स भव्यो विपुलां निर्जरां प्राप्नोति ।स कः? यो योगविधि वहित्वा-योगोपधानतपोऽनुष्ठानविधिं कृत्वैतानुत्तराध्यायान् सूत्रार्थतो लभेत । पश्चाद्गुरुमुखात्सूत्रार्थं लब्ध्वा परं भाषेत, स क्षीणकर्मा भवतीत्यर्थः ॥३॥
जस्साढत्ता एए कहवि, समप्पंति विग्घरहियस्स ।
सो लक्खिज्जइ भव्वो, पुव्वरिसि एव भासंति ॥ ४॥ स मनुष्यो भव्यो मुक्तिगामीति लक्ष्यते, पूर्वर्षयः-पूर्वाचार्या एवं भाषन्ते । स इति कः ? यस्य पुरुषस्य विघ्नरहितस्य-निर्विघ्नस्य सतः कथमपि यत्नेनाप्येते उत्तराध्यायाः 'आढत्ता' पठनायाऽऽरब्धाः सन्तः समाप्यन्ते-सम्पूर्णीभवन्ति स भव्यो भाग्यवान् ज्ञेय इत्यर्थः । भाग्यवतः पुरुषस्यैव निर्विघ्नमेतेऽध्यायाः सम्पूर्णीभवन्ति ।
यतःश्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । इत्युक्तेः ॥ ४ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनम् सम्पूर्णम् ॥३६॥
१ नियुक्तौ क्रमशः गाथे - ५५७ - ५५८ स्तः ।।