________________
२७४]
[ उत्तराध्ययनसूत्रे-भाग-२ रूपं मिथ्यादर्शनम्, तत्र रक्ता मिथ्यादर्शनरक्ताः, तादृशाः सन्तो म्रियन्ते, पुनर्ये जीवाः सनिदानाः, निदानेन विषयाद्याशया सह वर्तन्ते इति सनिदानास्तादृशाः सन्तो म्रियन्ते, तथा 'हु' इति निश्चयेन ये जीवा हिंसका जीवहिंसाकारिणः सन्तो नियन्ते, तादृशानां भवान्तरे जिनधर्मप्राप्तिर्दुर्लभा स्यादित्यर्थः ॥ २६१ ॥
सम्मइंसणरत्ता, अनियाणा सुक्कलेसमोगाढा ।
इइ जे मरंति जीवा, सुलहा तेसिं भवे बोही ॥ २६२ ॥ इत्यमुना प्रकारेण ये जीवा म्रियन्ते, तेषां जीवानां बोधिजैनधर्मप्राप्तिर्भवान्तरे सुलभा भवेत् । इतीति किं ? ये जीवाः सम्यग्दर्शनरक्ताः, देवतत्त्वगुरुतत्त्वधर्मतत्त्वरक्ताः, एतादृशाः सन्तो म्रियन्ते, तथा पुनर्ये जीवा अनिदाना निदानरहिताः सन्तो म्रियन्ते, पुनर्ये जीवाः शुक्ललेश्यामवगाढाः शुक्ललेश्यां प्रविष्टाः शुद्धपरिणामाः सन्तो म्रियन्ते, तेषां बोधिभवान्तरे सुलभा भवेदित्यर्थः ॥ २६२ ॥ ।
मिच्छादंसणरत्ता, सनियाणा किण्हलेसमोगाढा ।
इइ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥२६३ ॥ इत्यमुना प्रकारेण ये म्रियन्ते, तेषां पुनर्जन्मान्तरे बोधिर्दुर्लभा भवेत् । इतीति किं ? कृष्णलेश्यामवगाढाः कृष्णलेश्यां प्रविष्टाः सन्तो मिथ्यादर्शनरक्ताः, पुनः सनिदानाः, एतादृशाः सन्तो नियन्ते, तेषां जिनधर्मप्राप्तिर्दुर्लभा भवेत् । अत्र 'मिच्छादसणरत्ता' इति गाथां पूर्वमुक्त्वा पुनरपि मिथ्यादर्शनरक्तेति गाथोक्तास्ति, तत्र च पुनरुक्तिदूषणं न ज्ञेयम् । अत्र गाथायां कृष्णलेश्यावतां म्रियमाणानां भवसन्ततावपि बोधिप्राप्तेरभाव इति सूचितम् । पूर्वगाथायां तु कृष्णलेश्यारहितानां मृतानां तु मरणानन्तरमपरे जन्मनि बोधिदुर्लभत्वं दर्शितम्, इति न पुनरुक्तिदूषणम् ॥ २६३ ॥
जिणवयणे अणुरत्ता, जिणवयणं जे करंति भावेण ।
अमला असंकिलिट्ठा, ते हंति परित्तसंसारी ॥ २६४ ॥ ते जीवाः परीतसंसारिणो भवन्ति, प्राकृतत्वाद्बहुवचनस्थाने एकवचनम् । परीतः -खण्डितः संसारः परीतसंसारः, परीतसंसारो विद्यते येषां ते परीतसंसारिण इति छिन्नसंसारिणः स्युरित्यर्थः । ते इति के ? ये जीवा जिनवचनेऽर्हद्वाक्येऽनुरक्ताः सन्तो भावेन जिनवचनं कुर्वन्ति, इत्यनेन मनोवाक्कायैर्जिनधर्ममाराधयन्ति । पुनः कीदृशास्ते ? अमला मिथ्यामलरहिताः, पुनः कीदृशाः ? असङ्क्लिष्टा मोहमत्सरादिक्लेशरहिताः, एतादृशा जीवाः संसारपारं कृत्वा मोक्षं व्रजन्तीत्यर्थः ॥ २६४ ॥
बालमरणाणि बहुसो, अकाममरणाणि चेव बहुयाणि । मरिहंति ते वराया, जिणवयणं जे न याणंति ॥२६५ ॥