________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२७३ परिमितमेव स्तोकमेवाचाम्लं तपस्तस्मिन् संवत्सरे कुर्यात् । कोऽर्थः ? पूर्वस्मिन् संवत्सरार्धेऽस्मिन् संवत्सरार्धे च, एवमेकादशे संवत्सरे चतुर्थषष्ठाष्टमद्वादशादीनां पारणे आचाम्लं विदध्यादित्यर्थः । ततः कोटीसहितं तपः स्यात् ॥ २५८ ॥
इत्थमेकादशसु वर्षेषु व्यतीतेषु द्वादशवर्षे यत्कुर्यात्तदाह-कोटीभ्यां प्रत्याख्यानस्याद्यन्ताभ्यां सहितं तपो द्वादशे संवत्सरे मुनिः कुर्यात् । कोऽर्थः ? विवक्षितदिने प्रभातसमये आचाम्लप्रत्याखानं कृत्वा पुनर्द्वितीयदिने तपोऽन्तरं विधाय तस्यान्ते पुनराचाम्लामिति 'कोटीसहितमुच्यते । इत्यनेन द्वादशवर्षाणि तपः कुर्यात् । तु पुनः पश्चान्मासिकेन, तु पुनरर्धमासिकेनाहारेण, अर्थान्मासक्षपणप्रत्याख्यानेन, तथार्धमासक्षपणेनाहारेणेत्याहारानादरणेन तपः प्रस्तावाद्भक्तपरिज्ञयाऽनशनरूपं तपश्चरेत् । एतद्विस्तरस्तु निशीथचूर्णितोऽवसेयः ।। २५९ ॥ अङ्गीकृतानशनस्याऽशुभभावनापरिहारः कर्त्तव्यः, अतोऽशुभभावनाज्ञापनार्थमाह
कंदप्पमाभिओगं, किव्विसियं मोहमासुरत्तं च ।
एयाओ दुग्गईओ, मरणंमि विराहिया हुंति ॥ २६० ॥ एताः पञ्च भावना विराधिकाः सम्यग्दर्शनचारित्रादीनां भङ्गकराः सत्यो मरणान्तेमरणसमये दुर्गतयो दुर्गतिकारणत्वाद् दुर्गतयो भवन्ति । कारणे कार्योपचारः । एताः का भावनाः ? कन्दर्प इति कन्दर्पभावना, पदैकदेशे पदसमुदायोपचारात्, एवमाभियोग्यभावना, किल्बिषिभावना, मोहभावना, असुरत्वभावना, दुर्गतिश्चात्र, अर्थाद् देवदुर्गतिः स्यात् । तद्वशाद्वयवहारेण चारित्रे सत्यपि तादृग्देवनिकायोत्पत्तौ चारित्रभावेन नानागतिभाक्त्वं स्यात् । यदुक्तं
"यः संशयमपि कु र्या-देतासु भावनासु मनुजस्तु । स च गच्छेत् सुरयो नौ, यत्र हि चारित्रहीनत्वं ॥ १ ॥"
मरणसमये यादृशी मतिस्तादृशी गतिः स्यादिति दर्शितम् । मरणसमये यद्येता भावना न स्युस्तदा सुगतिः स्यादित्यर्थः ॥ २६० ॥
मिच्छादसणरत्ता, सनियाणा हु हिंसगा।
इइ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥२६१ ॥ इत्यमुना प्रकारेण ये जीवा म्रियन्ते, तेषां जीवानां पुनर्जन्मान्तरे बोधिजैनधर्मरुचिदुर्लभा-दुष्प्रापा भवेत् । इतीति किं ? ये जीवा मिथ्यादर्शनरताः, अतत्वे तत्त्वाभिनिवेश१ कोटावग्रभावे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिंस्तत्कोटीसहितम्।कोऽर्थः ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय, तच्चाहोरात्रं प्रतिपाल्य पुनर्द्वितीयेऽह्नि आचाम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारम्भकोटिः, आद्यस्य तु पर्यन्तकोटिः, उभे अपि मिलिते भवतः, इति तत्कोटीसहितमुच्यते इत्यन्ये।