________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२४७ संवर्तकवायवस्ते, यैर्वायुभिस्तृणादय एकस्मात्स्थानात्स्थानान्तरं नीयन्ते, एवमादयोऽनेकधा व्याख्याताः, परं वायुजातिसामान्येनैकविधा अनानात्वास्तीर्थकरैस्ते सूक्ष्मवायुकायजीवा व्याख्याताः ॥ ११९ ॥
सुहमा सव्वलोयम्मि, लोगदेसे य बायरा ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ १२० ॥ सूक्ष्मा वायुकायजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मकलोके स्थिताः सन्ति । बादरा वायुकायजीवा लोकैकदेशे स्थिताः सन्तीति क्षेत्रविभाग उक्तः । इतोऽनन्तरं तेषां वायुकायजीवानां चतुर्विधं कालविभागं वक्ष्ये ॥ १२० ॥
संतई पप्पणाइया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१२१ ॥ सन्ततिं प्रवाहमार्गमाश्रित्य वायुकायजीवा अनादयस्तथाऽपर्यवसिता अपि । पुनः स्थितिं प्रतीत्य ते सादिकाः सपर्यवसिताश्च वर्तन्ते ॥ १२१ ॥
तिन्नेव सहस्साइं, वासाणुक्कोसिया भवे ।
आउठिई वाऊणं, अंतोमुहुत्तं जहन्निया ॥१२२ ॥ वायूनां-वायुकायजीवानां त्रीणि वर्षसहस्राण्युत्कृष्टायुः स्थितिर्भवति । जयन्यिका स्थितिरन्तर्मुहूर्तं भवति ॥ १२२ ॥ अथ कायस्थितिमाह
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
कायठिई वाउणं, तं कायं तु अमुंचओ ॥१२३ ॥ वायूनां-वायुकायजीवानां स्वं कायं वायुकायममुञ्चतामसङ्ख्येयकालमुत्कृष्टा स्थितियाख्याता, जघन्यिका स्थितिरन्तर्मुहूर्तं भवति । वायुकायाच्च्युत्वा पुनर्वायुकाये एवोत्पद्यते, तदोत्कृष्टासङ्ख्येयकालं, जघन्यतश्चाप्यन्तर्मुहूर्तं स्थितिर्व्याख्यातेत्यर्थः ॥१२३॥ अथ कालस्यान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
विजढम्मि सए काए, वाउजीवाणमंतरं ॥१२४॥ वायुजीवानां स्वकीये काये त्यक्ते सत्युत्कृष्टमनन्तकालं, जघन्यमन्तर्मुहूर्तमन्तरं भवति । एतावता वायुकायस्थो जीवो वायुकायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनर्वायु-काये