________________
२४८ ]
[ उत्तराध्ययनसूत्रे - भाग - २ उत्पद्यते, तदा कियत्कालस्यान्तरं भवति ? तदोत्कृष्टतोऽनन्तकालस्यान्तरं भवति, जघन्यतश्चान्तर्मुहूर्तमन्तरं भवति ॥ १२४ ॥
एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइ सहस्ससो ॥ १२५ ॥
एतेषामुत्कलिकादिवायूनां वायुकायजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थाना'देशतश्चापि सहस्रशो विधानानि - बहवो भेदा भवन्तीत्यर्थः ॥ १२५ ॥
एवं तेजोवायुत्रसानुक्त्वोदारत्रसानाह
ओराला य तसा जे उ, चउव्विहा ते पकित्तिया । बेइंदिय तेइंदिय, चउरो पंचेन्दिया चेव ॥ १२६ ॥
ये उदारास्त्रसाद्वीन्द्रियादयस्ते चतुर्विधाः प्रकीर्तिताः, द्वीन्द्रियाः १, त्रीन्द्रियाः २, चतुरिन्द्रियाः ३, पञ्चेन्द्रियाः ४ चैव पादपूरणे । एते त्रसा उदारा - बृहच्छरीराः ॥ १२६ ॥ बेइंदिया य जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता, एवमेए सुणेह मे ॥ १२७ ॥
1
द्वीन्द्रियाः कायरसनेन्द्रिययुक्ता जीवास्ते द्विविधाः प्रकीर्तिताः । ते पर्याप्ता अपर्याप्ताश्च, एवममुना प्रकारेणैते द्वीन्द्रियाः सन्तीति वाक्यं मे कथयतो यूयं श्रृणुत ॥ १२७ ॥
किमिणो सोमंगला चेव, अलसा मायवाहया ।
वासीमुहा य सिप्पीया, संखा संखणगा तहा ॥ १२८ ॥ पल्लोयाणुपल्लया चेव, तहेव य वराडगा ।
जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२९ ॥
"
कृमयोऽपवित्रजीवाः च पुनः सोमङ्गला द्वीन्द्रियजीवविशेषाः, अलसा वर्षाकाले मृत्तिकोद्भवाः, मातृवाहकाश्चडेलगिजाई इति लोकप्रसिद्धिमन्तो द्वीन्द्रियजीवाः । वासीमुखा वासीसदृशवदना जीवाः, तथा शुक्यो मुक्ताफलयोनयः, शङ्ङ्खा वृद्धजलजाः, तथा शङ्खनका लघवो वर्षासु मृत्तिकोद्भवाः ॥ १२८ ॥
पल्लकाश्च पुनरणुपल्लकास्तथैव वराटकाः कपर्दकाः, जलूका रुधिरपाः, जालका अपि द्वीन्द्रियजीवविशेषाः, तथैव चन्दना अक्षा:, येषामवयवाः स्थापनायां स्थाप्यन्ते । द्वन्द्रयाणां मध्ये केचित्प्रसिद्धाः केचिदप्रसिद्धाः सन्ति ॥ १२९ ॥
१ अपेक्षाए ।