________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२४९ इइ बेइंदिया एए, णेगहा एवमाइओ ।
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥१३०॥ इत्यमुना प्रकारेणैते द्वीन्द्रिया एवमादयोऽनेकधा अनेकनामनो वर्तन्ते । सर्वे द्वीन्द्रिया जीवा लोकैकदेशे - चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे जलाश्रयादौ तिष्ठन्ति, सर्वत्र न व्याख्याताः सन्ति ॥ १३० ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिई पडुच्च साईया, सपज्जवसियावि य ॥१३१ ॥ ते द्वीन्द्रियाः सन्ततिं प्राप्य - प्रवाहमाश्रित्यानादयस्तथाऽपर्यवसिता अपि सन्ति । स्थितिं भवस्थिति कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिता अपि सन्ति ॥१३१॥ पूर्वं भवस्थिति वदति
वासाइं बारसे चेव, उक्कोसेण वियाहिया ।
बेइंदियआउठिई, अंतोमुहत्तं जहनिया ॥१३२ ॥ द्वीन्द्रियाणां द्वादशवर्षाण्यायुःस्थितिरुत्कृष्टा व्याख्यातास्ति, जघन्यतोऽन्तर्मुहूर्त, नवसमयादारभ्य किञ्चिदूनं घटिकाद्वयमायुषः स्थितिर्व्याख्याता ॥ १३२ ॥ अथ कायस्थितिमाह
संखिज्जकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ।
बेइंदियकायठिई, तं कायं तुं अमुंचओ ॥१३३ ॥ द्वीन्द्रियजीवानां तं स्वकीयकायं द्वीन्द्रियकायममुञ्चतां कायस्थितिरुत्कृष्टा सङ्ख्येयकालं स्थितिः, जघन्यतोऽन्तर्मुहूर्त स्थितिरस्तीत्यर्थः ॥ १३३ ॥ अथ कालस्यान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
बेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १३४ ॥ द्वीन्द्रियजीवानां स्वकीययोनित्यागे सत्यपरस्मिन् काये उत्पद्य पुनर्दीन्द्रिययोनावेवोत्पद्यते, तदोत्कृष्टमन्तरमनन्तकालं, जघन्यतोऽन्तर्मुहूर्तं कालस्यान्तरं भवति । यदा हि द्वीन्द्रियो जीव वयोनेश्च्युत्वा वनस्पतावुत्पद्यते, तदानन्तं कालं तिष्ठति । ततोऽनन्तकालस्यान्तरं भनि । पश्चात्पुनःन्द्रियत्वे उत्पद्यते इत्यर्थः ॥ १३४ ॥
एएसि वनओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१३५ ॥