________________
२५० ]
[ उत्तराध्ययनसूत्रे - भाग-२
एतेषां द्वीन्द्रियाणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्च सहस्रशो बहूनि विधानानि भेदा भवन्तीति शेषः ॥ १३५ ॥
अथ त्रीन्द्रियानाह
तेइंदिया उजे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥ १३६ ॥
ये त्रीन्द्रियजीवाः शरीररसनाघ्घ्राणेन्द्रियत्रययुक्तास्ते पर्याप्तापर्याप्तभेदेन द्विविधाः प्रकीर्त्तिताः । तेषां त्रीन्द्रियजीवानां भेदान् 'मे' मम कथयतो यूयं श्रृणुत ॥ १३६ ॥ कुंथुपिवीलिउदंसा, उक्कलुद्देहिया तहा ।
तणहारकट्ठहारा, मालूगा पत्तहारगा ॥ १३७ ॥ 'कप्पासट्ठिमि जाया, तिंदुगा तओसमिंजगा । सदावरी य गुम्मी य, बोधव्वा इंदगायगा ॥ १३८ ॥ इंदगोवगमाईया, णेगविहा एवमाईओ ।
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥ १३९ ॥
'कुंथुपिवीलिउहंसा' कुन्थुर्लघुशरीरस्त्रीन्द्रियजीवः, पिपीलिः कीटिका, उसास्त्री'न्द्रियजातिविशेषाः, उत्कलिको जन्तुविशेष:, तथोपदेहिकातृणहारकाष्टहारा एतेऽपि त्रीन्द्रियजीवविशेषाः, मालूका: पत्रहारकाः, एतेऽपि त्रीन्द्रियजीवविशेषाः ॥ १३७ ॥ कर्पासास्थिजातास्तिन्दुकाः, पुनस्तन्तुसमिंजिका अपि त्रीन्द्रियजीवविशेषाः, सदावरी, च पुनर्गुल्मीति यूकाः, , तथेन्द्रकायका इत्यपि कुत्रचिल्लोकप्रसिद्धाः ॥ १३८ ॥ इन्द्रगोपकादिकाः, इन्द्रगोपको ममोल इति प्रसिद्धः । एवमादिकास्त्रीन्द्रिया अनेकधा जीवास्ते सर्वे लोकैकदेशे व्याख्याताः ॥ १३९ ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठि पडुच्च साईया, सपज्जवसियावि य ॥ १४० ॥
एते त्रीन्द्रियजीवाः सन्ततिं प्राप्यानादयोऽपर्यवसिताः, स्थितिं भवस्थितिं कायस्थिति च प्रतीत्य सादिकाः सपर्यवसिता अपि ॥ १४० ॥
एगूणपत्रहोरत्ता, उक्कोसेण वियाहिया ।
तेइंदियआउठिई, अंतोमुहुत्तं जहन्निया ॥ १४१ ॥
१ कप्पासट्ठिमिजा य - अन्यसंस्करणे ॥