________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२५१ त्रीन्द्रियजीवानामेकोनपञ्चाशद्दिनान्युत्कृष्टायुःस्थितिव्याख्याता, जघन्यकान्तर्मुहूर्तमायुःस्थितिरस्तीति भावः ॥१४१ ॥ अथ कायस्थितिमाह
संखिज्जकालमुक्कोसं, अन्तोमुहत्तं जहन्नयं ।
तेइंदियकायठिई, तं कायं तु अमुंचओ ॥१४२ ॥ त्रीन्द्रियाणां स्वं कायं त्रीन्द्रियकायममुञ्चतां मृत्वा तत्रैवोत्यद्यमानानामुत्कृष्टा सङ्ख्येयकालं स्थितिः, जघन्यतस्त्वन्तर्मुहूर्तमेव स्थितिरस्ति ॥१४२ ॥ अथ कालस्यान्तरमाह
अणंतकालमुक्कोसं, अन्तोमुहुत्तं जहन्नयं । .
तेइंदियजीवाणं, अन्तरं तु वियाहियं ॥ १४३ ॥ त्रीन्द्रियजीवानां स्वकायाच्च्युत्वाऽन्यत्र योनावुत्पद्य पुनस्त्रीन्द्रिययोनावुत्पद्यते, तदोत्कृष्टमनन्तकालमन्तरं भवति । वनस्पतिकायेऽनन्तकालस्य सम्भवात् । जघन्यमन्तरमन्तर्मुहूर्त व्याख्यातम् ॥१४३ ॥
एएसिं वन्नओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१४४ ॥ एतेषां त्रीन्द्रियजीवानां वर्णतो गन्धतो रसतः स्पर्शतश्च संस्थानादेशतश्चापि सहस्रशो विधानानि भवन्ति ॥ १४४ ॥ अथ चतुरिन्दियानाह
चरिंदिया यजे जीवा, दुविहा ते पकित्तिया।
पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१४५ ॥ चतुरिन्द्रिया ये जीवाः स्पर्शनरसनघ्राणचक्षुःसहितास्ते च पर्याप्तापर्याप्तभेदेन द्विविधाः प्रकीर्तिताः, तेषां भेदान् 'मे' मम कथयतो यूयं श्रृणुत ॥१४५ ॥
अंधिया पोत्तिया चेव, मच्छिया मसगा तहा। भमरे कीडपयंगे य, ढिकुणे कुंकुणे तहा ॥१४६ ॥ कुक्कुडे सिंगरीडी य, नंदावत्ते य विच्छिए । डोले य भिंगरीडी य, विरली अच्छिवेहए ॥१४७ ॥