________________
२५२]
[उत्तराध्ययनसूत्रे-भाग-२ अच्छिले माहए 'अच्छि, रोडए चित्तपत्तए ।
ओहिंजलिया जलकारी य, 'नीयया तंबगाइया ॥१४८॥ तिसृभिर्गाथाभिश्चतुरिन्द्रियजीवानां नामानि-अन्धिका, च पुनः पौत्तिका, मक्षिका तथा मशका, भ्रमरस्तथा कीट: पतङ्गश्च, तथा ढिङ्कुणस्तथा कुङ्कुणः, एते चतुरिन्द्रिया जन्तवः ॥१४६ ॥ पुनः कुर्कुटः, श्रृङ्गरीटी, नन्द्यावर्त्तः, वृश्चिकः, डोलः, भृङ्गरीटकः, वीरली अक्षिवेधकः ॥१४७ ॥ अक्षिलो मागधः, अक्षो रोडकश्चित्रपत्रा, उपधिजलकः, जलकारी, नीचकस्ताम्रकः ॥ १४८ ॥ एतानि देशीयनामानि तत्तद्देशप्रसिद्धानि ।
इइ चरिंदिया एए, णेगहा एवमाईओ।
लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया ॥१४९ ॥ इत्यमुना प्रकारेणैते चतुरिन्द्रिया एवमादिका अनेकधा सन्ति । ते सर्वे चतुरिन्द्रिया लोकस्य-चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे परिकीर्तिताः ॥ १४९ ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१५०॥ सन्तति प्राप्य ते जीवा अनादयस्तथाऽपर्यवसिताश्चापि, स्थिति-भवस्थिति कायस्थितिं च प्रतीत्य सादयः सपर्यवसिता अपि सन्ति ॥ १५० ॥
छच्चेव य मासाऊ, उक्कोसेण वियाहिया ।
चउरिदियआउठिई, अन्तोमुहुत्तं जहनिया ॥१५१ ॥ चतुरीन्द्रियाणामुत्कृष्टा षण्मासायुःस्थितिर्व्याख्याता, जघन्यिका चान्तर्मुहूर्तं स्थितिर्व्याख्याता ॥ १५१ ॥ भवस्थितिमुक्त्वा कायस्थितिमाह
संखेज्जकालमुक्कोसं, अन्तोमुहुत्तं जहन्निया ।
चउरिदियकायठिई, तं कायं तु अमुंचओ ॥१५२ ॥ चतुरिन्द्रियाणां स्वं कायममुञ्चतां पुनः पुनस्तत्रैवोत्पद्यमानानां सङ्ख्येयकालमुत्कृष्टा स्थितिरस्ति, जघन्यिका चान्तर्मुहूर्तं यावद्व्याख्याता ॥ १५२ ॥
अथ कालान्तरमाह___ अणंतकालमुक्कोसं, अन्तोमुहत्तं जहन्नियं ।
विजढंमि सए काए, अन्तरेयं वियाहियं ॥१५३ ॥ १ अच्छिरोडए विचित्ते चित्तपत्तए-अन्यसंस्करणे। २ नीया-अन्यसंस्करणे॥