________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२५३
चतुरिन्द्रियाणां स्वकार्य त्यक्ते सति पुनरन्यस्मिन् काये उत्पद्य पुनश्चतुरिन्द्रियकाये उत्पद्यते, तदोत्कृष्टमन्तरमनन्तकालं, जघन्यतोऽन्तर्मुहूर्तमन्तरं ज्ञेयम् ॥ १५३ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ॥ १५४ ॥
एतेषां चतुरिन्द्रियजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्त्रशो विधानानि बहवो भेदा भवन्ति ॥ १५४ ॥
अथ पञ्चेन्द्रियभेदानाह
पंचेंदिया य जे जीवा, चउव्विहा ते वियाहिया ।
नेरइया तिरिक्खा य, मणुआ देवा य आहिया ॥ १५५ ॥
पञ्चेन्द्रियाश्च ये जीवास्ते चतुर्विधा व्याख्याताः, ते पञ्चेन्द्रिया जीवा नैरयिकास्तिर्यञ्चो मनुजाश्च पुनर्देवा आख्यातास्तीर्थकरैर्व्याख्याताः ।। १५५ ॥
'नेरइया सत्तविहा, पुढवीसु सत्सु भवे । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥ १५६ ॥
सप्तसु रत्नप्रभादिषु नरकपृथ्वीषु सप्तविधास्ते नैरयिका भवेयुः, ते पुनर्वैरयिकाः पर्याप्ता अपर्याप्ताश्च सन्ति । सप्त नैरयिका: पर्याप्ताः, सप्त नैरयिका अपर्याप्ताः । एवं चतुर्दशप्रकारांस्तेषां भेदान् 'मे' मम कथयतः सतो यूयं श्रृणुत ॥ १५६ ॥
पूर्वं सप्तनरकपृथ्वीनां स्वरूपमाह
रयणाभा १ सक्कराभा २, वालुयाभा ३ य आहिया ।
पंकाभा ४ धूमाभा ५, तमा ६ तमतमा ७ तहा ॥ १५७ ॥
रत्नानां वैडूर्यादीनामाभा इवाभा यस्याः सा रत्नाभा, रत्नकाण्डस्य भवनपतिभवनस्याभा इवाभा यस्याः सा रत्नाभा १ । शर्करा श्लक्ष्णपाषाणरूपा, तदाकारा आभा यस्याः शर्कराभा २ । वालुका श्लक्ष्णरजः सद्दगाभा यस्याः सा वालुकाभा ३ । पङ्कस्याभेवाभा यस्याः सा पङ्काभा ४ | धूमस्याभेवाभा यस्याः सा धूमाभा, यद्यपि तत्र धूमस्याभावोऽस्ति, तथापि तत्र तदाकारपुद्गलानां परिणामोऽस्तीति धूमाभा ५ । तमः प्रभा तमोरूपान्धकारमयी तमाभा ६ । तमस्तमा, प्रकृष्टं तमस्तमस्तमः, तन्मयी अत्यन्तान्धकारमयीत्यर्थः ७ । सप्तविधनरकपृथ्वीत्वेन तदन्तर्वर्तिनोऽपि नरकजीवाः सप्तधा व्याख्याताः, ते पुनः पर्याप्तापर्याप्तभेदा-च्चतुर्दशधा ज्ञेयाः ॥ १५७ ॥
१ नेरइया सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुयाभा य आहिया ॥ १५६ ॥ पंकाभा धूमाभा, तमा तमतमा तहा। इइ नेरइया एए, सत्तहा परिकित्तिया ॥ १५७ ॥ इमे द्वे गाथे अन्यसंस्करणे एवं स्तः ॥