________________
२५४]
[ उत्तराध्ययनसूत्रे-भाग-२ इति सप्तनरकपृथ्वीनां स्वरूपमुक्त्वाऽथ नामान्याह
धम्मा वंसगा सेला, तहा अंजणरिट्ठगा ।
मघा माघवई चेव, णारया य पुणो भवे ॥१५८ ॥ धम्मा प्रथमा पृथ्वी १, द्वितीया वंशका २, तृतीया शैला ३, तथा चतुर्थ्यञ्जना ४, अरिष्टा पञ्चमी ५, मघा षष्ठी ६, माघवती सप्तमी ७ । अत्र वासिनो नारकाः सप्तधा भवेयुः ॥१५८ ॥
रयणाइ गुत्तओ चेव, तहा धम्माइ णामओ।
इइ नेरईया एए, सत्तहा परिकित्तिया ॥ १५९ ॥ रत्नप्रभादयो गोत्रतो ज्ञेयाः, तथा धर्मादयो नामतो ज्ञेयाः, इत्यमुना प्रकारेणैते नैरयिकाः सप्तधा परिकीर्तिताः ॥ १५९ ॥ अत्र क्षेत्रविभागमाह
लोगस्स एगदेसंमि, ते सव्वे उ वियाहिया ।
इत्तो कालविभागंतु, तेसिं वुच्छं चउव्विहं ॥१६० ॥ ते सर्वे नारका लोकस्यैकदेशे व्याख्याताः, अन्यत्र सर्वत्र न सन्तीत्यर्थः । 'इत्तो' इतोऽनन्तरं तेषां नारकाणां चतुर्विधं कालविभागं वक्ष्ये ॥ १६० ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१६१॥ सन्ततिं प्राप्य प्रवाहमाश्रित्य ते नारका अनादयोऽपर्यवसिताश्चापि । स्थिति कायस्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि वर्तन्ते ॥ १६१ ॥
सागरोवममेगं तु, उक्कोसेण वियाहिया ।
पढमाए जहन्नेणं, दसवाससहस्सिया ॥ १६२ ॥ प्रथमायां नरकपृथिव्यां रत्नप्रभायामुत्कृष्टेन त्रयोदशे प्रस्तटे एकं सागरोपमायुःस्थितिर्व्याख्याता, जघन्येन दशवर्षसहस्रिकायुःस्थितिर्व्याख्याता ॥ १६२ ॥
तिन्नेव सागराउ, उक्कोसेण वियाहिया ।
दोच्चाए जहन्नेणं, एगं तु सागरोवमं ॥ १६३ ॥ द्वितीयायां नरकपृथिव्यां शर्कराभायामन्तिमे प्रस्तटे नारकाणामुत्कृष्टत्वेन त्रीणि सागरोपमाण्यायुःस्थितिर्व्याख्याता । जघन्येन त्वेकं सागरोपममायुःस्थितिर्व्याख्याता ॥१६३॥