________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२५५ सत्तेव सागराऊ, उक्कोसेण वियाहिया ।
तइयाए जहन्नेणं, तिन्नेव सागरोवमा ॥ १६४ ॥ तृतीयायां नरकपृथिव्यां वालुकाप्रभायामन्तिमे प्रस्तटे उत्कृष्टतः सप्तसागरोपमाण्यायु:- स्थितिर्व्याख्याता, जघन्यतस्त्रीणि सागरोपमाणि स्थितिर्व्याख्याता ॥१६४ ॥
दससागरोवमाओ, उक्कोसेण वियाहिया ।
चउत्थीए जहन्नेणं, सत्तेव सागरोवमा ॥ १६५ ॥ चतुर्थ्यां नरकपृथिव्यां पङ्कप्रभायामन्त्ये प्रस्तटे उत्कृष्टेन दशसागरोपमाणि स्थितिर्व्याख्याता । जघन्येन सप्तसागरोपमाण्यायुःस्थितिः कथिता ॥ १६५॥
सत्तरस सागराओ, उक्कोसेण वियाहिया ।
पंचमाए जहन्नेणं, दस उ सागरोवमा ॥ १६६ ॥ पञ्चमायां नरकपृथिव्यां धूमप्रभायामन्त्ये प्रस्तटे सप्तदशसागरोपमाण्यायुःस्थितिर्व्याख्याता । जघन्येन तु दशसागरोपमाण्यायुःस्थितिर्व्याख्याता ॥१६६ ॥
बावीससागराओ, उक्कोसेण वियाहिया ।
छट्ठीए जहन्नेणं, सत्तरससागरोवमा ॥ १६७ ॥ षष्ठ्यां नरकपृथिव्यां तमःप्रभायामन्त्ये प्रस्तटे उत्कृष्टेन द्वाविंशतिसागरोपमाण्यायु:स्थितिर्व्याख्याता । जघन्येन सप्तदशसागरोपमाण्यायुःस्थितिर्व्याख्याता ॥ १६७ ॥
तित्तीससागराओ, उक्कोसेण वियाहिया । .
सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६८॥ सप्तम्यां नरकपृथिव्यां तमस्तमःप्रभायामन्त्ये प्रस्तटे उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाण्यायुःस्थितिर्व्याख्याता । जघन्येन द्वाविंशतिसागरोपमाण्यायुःस्थितिर्व्याख्याता ॥१६८॥
जा चेव आउठिई, नेईयाणं वियाहिया ।
सा तेसिं कायठिई, जहन्नुक्कोसिया भवे ॥१६९ ॥ नारकाणां या जघन्योत्कृष्टत आयुःस्थितिर्व्याख्याता, सैव तेषां नारकाणां कायस्थितिर्जघन्योत्कृष्टतश्च व्याख्याता । यतो हि नारको जीवो मृत्वा पुनर्नरकभूमौ नोत्पद्यते, अन्यत्र गर्भजपर्याप्तसङ्ख्येयवर्षायुष्केषूत्पद्यते, पश्चान्ननरके उत्पद्यते नोत्पद्यते च ॥१६९ ॥ अथ कालान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नियं । विजढंमि सए काए, नेरड्याणं तु अंतरं ॥१७० ॥