________________
२५६]
[ उत्तराध्ययनसूत्रे-भाग-२ नारकाणांतुस्वे काये त्यक्ते सत्युत्कृष्टंकालस्यान्तरमनन्तकालं भवति, जघन्यतोऽन्तमुहूर्त कालान्तरं भवति।यदान्यतरनरकात्कश्चिन्नारकश्च्युत्वा गर्भजपर्याप्तमत्स्यादिषूत्पद्यते, तत्र चात्यन्तदुष्टाध्यवसायत्वादन्तर्मुहूर्तमायुः प्रपाल्य मृत्वान्यतमनरके उत्पद्यते ॥१७॥
एएसि वन्नओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१७१ ॥ एतेषां नारकाणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवन्ति ॥ १७१ ॥
अथ पञ्चेन्द्रियतिरश्चां भेदानाहपंचेंदिया तिरिक्खा य, दुविहा ते वियाहिया ।
समुच्छिमा तिरिक्खा य, गब्भववंतिया तहा ॥ १७२ ॥ पञ्चेन्द्रियास्तिर्यञ्चो द्विविधा व्याख्याताः, ते के ? संमूर्छिमास्तिर्यञ्चस्तथा गर्भव्युक्रान्तिकास्तिर्यञ्चश्च । तत्र सम्पूर्छाऽतिशयमूढभावस्तेन निर्वृत्ता निष्पन्नाः सम्मूर्छिमाः, सम्मूर्छिमाश्च ते तिर्यञ्चो सम्मूर्छिमतिर्यञ्चो मनःपर्याप्तिरहिताः सदा सम्मूर्छिता इव तिष्ठन्ति । गर्भव्युत्क्रान्तिका-गर्भजा मनःपर्याप्तिसहिताः ॥ १७२ ॥
दुविहा ते भवेतिविहा, जलयरा थलयरा तहा।
खहयरा य बोधव्वा, तेसिं भेए सुणेह मे ॥१७३ ॥ ते द्विविधास्सम्मूर्छिमा गर्भजाश्च तिर्यञ्चः पुनस्त्रिविधा बोधव्याः । तत् त्रैविध्यं यथा जलचराः स्थलचरास्तथा खचराः सन्ति । एते त्रयोऽपि द्विविधाः गर्भजाः सम्मूर्छिमाश्च ज्ञेयाः । तेषां भेदान् मे कथयतो यूयं श्रृणुत ॥ १७३ ॥ अथ जलचरभेदानाह
मच्छा य कच्छभा य वि, गाहा य मगरा तहा। सिसुमारा य बोधव्वा, पंचहा जलयराहिया ॥ १७४ ॥ एते जलचराः पञ्चधा आख्याताः । एते के ? मत्स्या मीनाः, कच्छपाः कूर्माश्चापि, ग्राहास्तन्तुकजीवाः, मकरा-महामत्स्याः,शिशुमारा अपिमत्स्यविशेषाः। एतेषु पञ्चसुभेदेषु बहूनां भेदानामन्तर्भावः।यतो हि यावन्तःस्थलजीवास्तावन्तएव जलजीवा इत्युक्तेः॥१७४॥
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ १७५ ॥