________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२५७ ते सर्वे जलचरा जीवा लोकैकदेशे व्याख्याताः, जलस्थानेष्वेव न तु सर्वत्र, इतोऽनन्तरं तेषां जलचरजीवानां तु कालविभागं चतुर्विधं वक्ष्ये ॥ १७५ ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिई पडुच्च साईया, सपज्जवसियावि य ॥१७६ ॥ ते जलचरजीवाः सन्ततिं प्राप्य-प्रवाहमार्गमाश्रित्याऽनादयोऽपर्यवसिताश्च वर्तन्ते । स्थितिं प्रतीत्य-भवस्थिति कायस्थितिं चाश्रित्य सादयः सपर्यवसिताश्च सन्तीति भावः ॥१७६॥
इक्का य पुव्वकोडी, उक्कोसेण वियाहिया । __ आउठिई जलयराणं, अंतोमुहत्तं जहन्निया ॥१७७ ॥
जलचराणां मत्स्यादीनां जीवानामुत्कृष्टेनायुःस्थितिरेका पूर्वकोटी व्याख्याता। पूर्वस्य तु परिमाणमेतत्-सप्ततिकोटिलक्षवर्षाणि, षट्पञ्चाशत्सहस्रकोटिवर्षाणि, एतैर्वधैः पूर्वं भवति । जघन्यिकायुःस्थितिश्चैतेषामन्तर्मुहूर्तमेव व्याख्याता ॥ १७७ ॥ अथ जलचराणां कायस्थितिमाह
पुव्वकोडीपुहुत्तं तु, उक्कोसेण वियाहिया ।
कायठिई जलयराणं, अंतोमुहत्तं जहन्निया ॥१७८ ॥ जलचराणां कायस्थितिरुत्कृष्टतः पूर्वकोटिपृथक्त्वं व्याख्याता । यदा जलचरजीवो मृत्वा पुनः पुनर्जलचरयोनावेवोत्पद्यते, तदा पूर्वकोटिपृथक्त्वं यावदुत्पद्यते । पृथक्त्वं द्वाभ्यामारभ्य नवावं यावत्पृथक्त्वमिति सिद्धान्ताङ्कसंज्ञाऽस्ति । द्वाभ्यां पूर्वकोटिभ्यामारभ्य यावन्नवकोटिं यावज्जलचरो जीवो मृत्वा मृत्वा जलचरयोनावुत्पद्यते इत्यर्थः । जघन्यतस्त्वन्तर्मुहूर्तमेव कायस्थितिर्व्याख्याता ॥ १७८ ॥ अथ कालान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
विजढम्मि सए काए, जलयराणं तु अंतरं ॥ १७९ ॥ जलचराणां स्वकीये काये त्यक्ते सत्यन्यत्रोत्पद्य पुनः स्वकाये उत्पद्यते, तदा कियकालान्तरं भवति ? तदुच्यते-उत्कृष्टतोऽनन्तं कालान्तरं भवति, यतो हि चेज्जलचरो निगोदत्वेनोत्पद्यते, तदा निगोदस्यानन्तकालस्य स्थितिरस्ति, जघन्यतस्त्वन्तर्मुहूर्तमेव कालान्तरं ज्ञेयम् ॥१७९ ॥
एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १८० ॥