________________
२५८]
[ उत्तराध्ययनसूत्रे-भाग-२ तेषां जलचराणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि विधानानि सहस्रशो भवन्ति ॥१८० ॥ अथ स्थलचरभेदानाह
चउप्पया य परिसप्पा, दुविहा थलयरा भवे ।
चउप्पया चउव्विहा, ते मे कित्तयओ सुण ॥१८१ ॥ स्थलचरा द्विविधाः, चतुःपदा परिसर्पाश्च भवेयुः, चत्वारः पदा येषां ते चतुःपदाः, परि-समन्तात्सर्पन्तीति परिसर्पाः, तत्र चतुःपदाश्चतुर्विधाः सन्ति । ताश्चतुर्विधान् मे-मम कथयतस्त्वं श्रृणु ॥ १८१॥
एगखुरा दुखुराओ, गंडीपयसणप्पया ।
हयमाई गोणमाई, गयमाई सीहमाइणो ॥१८२॥ एकखुराः, द्विखुराः गण्डीपदाः, सनखपदाः, एकः खुरश्चरणाधोवर्ति हड्डविशेषो येषां ते एकखुरास्ते चाश्वादयः । एवं द्वौ खुरौ येषां ते द्विखुरा गोणादयो-बलीवर्दादयः, गण्डी कमलमध्यस्थकर्णिका, तद्वत्पदा येषां ते गण्डीपदा गजादयः, सहनखैर्वर्तन्ते इति सनखाः, सनखाः पदा येषां ते सनखपदाः सिंहादयः । 'सणप्पया' इति प्राकृतत्वात् ॥ १८२ ॥ अथ परिसर्पानाह
भूओरगपरिसप्पा, परिसप्पा दुविहा भवे ।
गोहाई अहिमाई य, इक्किक्काणेगहा भवे ॥१८३ ॥ परिसर्या जीवा द्विविधा भवेयुः ते के ? भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः, उरसा परिसर्पन्तीत्युरःपरिसर्पाः, तत्र गोधानकुलमूषकादयो भुजपरिसर्पाः, अहय उर:परिसर्पाः । एते एकेऽप्यनेकधा भवेयुः ॥१८३ ॥ अर्थतेषां क्षेत्रविभागमाह
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१८४ ॥ ते सर्वे स्थलचरा लोकैकदेशे व्याख्याताः । इतोऽनन्तरं कालविभागं स्थलचराणां चतुर्विधं वक्ष्ये ॥ १८४ ॥
संतई पप्पणाईया, अपज्जवसियावि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१८५ ॥