________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२५९ सन्ततिं प्राप्य ते स्थलचरा अनादयोऽपर्यवसिताश्चापि, स्थिति-भवस्थिति प्रतीत्याश्रित्य सादयः सपर्यवसिताश्चापि वर्तन्ते ॥ १८५ ॥
पलिओवमाइं तिन्नेओ, उक्कोसेण वियाहिया।
आउठिई थलयराणं, अंतोमुहुत्तं जहन्नियं ॥ १८६ ॥ स्थलचराणामुत्कृष्टेन त्रीणि पल्योपमान्यायुःस्थितिर्व्याख्याता । जघन्यतः स्थलचराणामन्तर्मुहूर्तमायुःस्थितिः ॥ १८६ ॥
अथ स्थलचरा मृत्वा स्थलचरेष्वेवोत्पद्यन्ते तदा कियत्कालेनोत्पद्यन्ते ? तां कायस्थितिमाह
पलिओवमाई तिन्नेओ, उक्कोसेणं तु साहिया।
पुव्वकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥ १८७ ॥ स्थलचराणां स्वकीये काये एव समुत्पद्यमानानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन कायस्थितिर्व्याख्याता । जघन्यिका कायस्थितिस्तेषामन्तर्मुहूर्तमेवोक्ता । यतो हि त्रिपल्योपमायुषः स्थलचराः पूर्वकोट्यायुषां सप्ताष्टभवग्रहणानि कुर्वन्ति, पञ्चेन्द्रियतिरश्चामधिकनिरन्तरभवस्याऽसम्भवोऽस्ति ॥ १८७ ॥
अथ कालान्तरमाह
कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुत्तं जहन्नियं ॥१८८ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ।
संठाणभेयओ वावि, विहाणाइं सहस्ससो॥१८९॥युग्मम् स्थलचराणां स्वकीये काये त्यक्ते सति वनस्पत्यादिमध्ये उत्पद्यते चेत्स्थलचरेषु पुनरायाति, तदोत्कृष्टमनन्तकालस्यान्तरं भवति । जघन्यतश्चान्तर्मुहूर्तकालस्यान्तरं भवति ॥१८८ ॥ एतेषां स्थलचराणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानभेदतश्चापि सहस्रशो विधानानि भेदाः ॥१८९ ॥
अथ खेचरभेदानाहचम्मे उ लोमपक्खी य, तइया समुग्गपक्खी य । विययपक्खी य बोधव्वा, पक्खिणो य चऊव्विहा ॥१९० ॥
पक्षिणश्चतुर्विधा बोधव्याः, चर्मपक्षिणश्चर्मचटिकाद्याः, रोमपक्षिणो राजहंसाद्याः, समुद्गपक्षिणः समुद्गकाकारपक्षयुक्ता मानुषोत्तरपर्वताबहिर्वर्तिनः, विततपक्षिणो ये सर्वदा विस्तारितपक्षा एव तिष्ठन्ति ॥१९०॥