________________
२६०]
[उत्तराध्ययनसूत्रे-भाग-२ लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ।
इत्तो कालविभागं तु, तेसिं वुच्छंचऊव्विहं ॥१९१ ॥ ते सर्वे खचरा लोकैकदेशे व्याख्याताः । सर्वत्र चतुर्दशरज्ज्वात्मकलोके न सन्ति । इतोऽनन्तरं तेषां खचराणां चतुर्विधं कालविभागं वक्ष्ये ॥ १९९॥ .
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिई पडुच्च साईया, सपज्जवसियावि य ॥१९२ ॥ सन्ततिं प्राप्य ते खचरा अनादयोऽपर्यवसिता अपि वर्तन्ते । स्थितिं प्रतीत्य ते सादयः सपर्यवसिता अपि सन्ति ॥ १९२ ॥
पलिओवमस्स भागो, असंखिज्जयमो भवे।
आऊठिई खहयराणं, अंतोमुहुत्तं जहनिया ॥१९३ ॥ खचराणामायुःस्थितिः पल्योपमस्याऽसङ्ख्येयतमो भागो भवति, जघन्यिकायु:स्थितिरन्तर्मुहूर्तं भवति ॥ १९३ ॥ अथ खचराणां कायस्थितिकालान्तरं द्वाभ्यां गाथाभ्यां वदति
असंखभागो पलियस्स, ऊक्कोसेण साहिओ। पुव्वकोडी पुहत्तेणं, अंतोमुहुत्तं जहन्निया ॥१९४ ॥ कायठिई खहयराणं, अंतरं तेसिमं भवे ।
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ॥ १९५ ॥ खचराणां कायस्थितिः पल्योपमस्याऽसङ्ख्येयतमो भागः पूर्वकोटिपृथक्त्वेन साधिकश्च भवति । जघन्यिका कायस्थितिरन्तर्मुहूर्तं भवति । तेषां खचराणां कालान्तरं चोत्कृष्टतोऽनन्तकालं यावद्भवति, जघन्यतश्चान्तर्मुहूर्तं भवति ॥ १९५ ॥
एएसिं वन्नओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १९६ ॥ एतेषां खचराणां वर्णतो गन्धतो रसतः स्पर्शतश्च संस्थानादेशतश्चापि सहस्रशो विधानानि भवन्ति ॥ १९६ ॥
मणुया दुविहभेया ऊ, ते मे कित्तयओ सुण । समुच्छिमा य मणुया, गब्भवक्वंतिया तहा ॥ १९७ ॥