________________
२४६]
[उत्तराध्ययनसूत्रे-भाग-२ भवस्थितिमुक्त्वा कायस्थितिमाह
असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नयं ।
कायठिई तेऊणं, तं कायं तु अमुंचओ ॥ ११४ ॥ तेजसां तेजस्कायजीवानां स्वं कायममुञ्चतामुत्कृष्टमसङ्ख्यं कालं स्थितिर्भवति । तेजस्कायस्थो जीवो मृत्वाऽनन्तरं तेजस्काये एवोत्पद्यते तदाऽसङ्ख्यं कालं तेजस्काये तिष्ठतीत्यर्थः । जघन्यमन्तर्मुहूर्तं तिष्ठति ॥ ११४ ॥ अथ कालस्यान्तरं वदति
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
विजढम्मि सए काए, तेउजीवाणमंतरं ॥ ११५ ॥ तेजोजीवानां स्वकीये तेजस्काये त्यक्ते सत्युत्कृष्टमन्तरमनन्तकालम्, तेजस्कायजीवास्तेजस्कायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनस्तेजस्काये उत्कृष्टमनन्तकालस्यान्तरेणोत्पद्यन्ते, जघन्यमन्तरं चेद्भवति, तदान्तर्मुहूर्तं भवति । नवसमयादारभ्य किञ्चिदूनं घटिकाद्वयमन्तर्मुहूर्तमुच्यते ॥ ११५ ॥
एएसिं वन्नओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वावि, विहाणाइं सहस्ससो ॥ ११६ ॥ एतेषामग्निकायजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भेदा भवन्ति ॥ ११६ ॥
दुविहा वाउजीवा उ, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ११७ ॥ वायुजीवा द्विविधाः सूक्ष्मा बादराः, ते पुनः पर्याप्तापर्याप्तभेदेन द्विधा सन्ति ॥११७ ॥
बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया ।
उक्कलिया मंडलिया, घणगुंजा सुद्धवाया य ॥११८ ॥ ते बादरा वायुकायजीवाः पर्याप्तापर्याप्तास्ते पुनः पञ्चधा प्रकीर्तिताः, पञ्च कथनमात्रतः, वायवो ह्यनेकविधाः सन्ति । उत्कलिकावायुर्यः स्थित्वा स्थित्वा वाति १, मण्डलिकावायुर्तृलिकावायुः २, घनो घनरूपो वायुर्घनवायू रत्नप्रभाद्यधोवर्ती महावायुः ३, गुञ्जन् वातीति गुञ्जावायुः ४, शुद्धा वायवः स्तोकं स्तोकं ये वान्ति ५ ॥ ११८ ॥
संवट्टगवाया य, णेगहा एवमाईओ । एगविहमणाणत्ता, सुहुमा ते वियाहिया ॥११९ ॥