________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२४५ दुविहा तेउजीवा य, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ १०८ ॥ तेजोजीवाः सूक्ष्मास्तथा बादराश्च, ते पुनः पर्याप्ताऽपर्याप्तभेदेन द्विविधाः सन्ति । सूक्ष्मा अग्निजीवाः पर्याप्ता अपर्याप्ताश्च वर्तन्ते ॥ १०८ ॥
बायरा जे उ पज्जत्ता, णेगहा ते वियाहिया ।
इंगाले मुम्मुरे अगणी, अच्चि जाला तहेव य ॥१०९ ॥ ये बादराः पर्याप्ता अग्निजीवास्तेऽनेकधा व्याख्याताः । अङ्गारः प्रज्ज्वलितेन्धन खण्डरूपः, मुर्मुरो भस्ममिश्रिताग्निकणरूपोऽग्निः अग्निश्चोक्तभेदादतिरिक्तः, अर्चिः प्रदीपादेः शिखा, ज्वाला छिन्नमूला या ज्वालोपरिष्टात् स्फुरन्ती दृश्यते, तथैवेति पादपूरणे ॥१०९ ॥
उक्का विज्जू य बोधव्वा, णेगहा एवमाइआ।
एगविहं अणाणत्ता, सुहुमा ते वियाहिया ॥११०॥ उल्काग्निस्तारावदाकाशात्पतन् यो दृश्यते, विद्युत्तडिदग्निः, एवमादिका अनेकधा अग्निजीवा बोधव्याः । तेऽग्नयः सूक्ष्मा एकविधा एव, अनानात्वा व्याख्याताः ॥ ११० ॥
सुहमा सव्वलोगंमि, लोगदेसे य बायरा ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१११ ॥ सूक्ष्माग्निजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मके लोके सन्ति, बादरा अग्निकायजीवा लोकदेशे, चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे सार्धद्वितीयद्वीपे सन्ति, इति क्षेत्रविभाग उक्तः । इतोऽनन्तरं तेषामग्निकायजीवानां चतुर्विधं कालविभागं वक्ष्ये ॥१११ ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिई पडुच्च साईया, सपज्जवसियावि य ॥११२ ॥ अग्निकायजीवाः सन्ततिं प्राप्याऽनादिका-आदिरहितास्तथाऽपर्यवसिताः, स्थिति प्रतीत्यायुराश्रित्य सादिका:-सपर्यवसिता अपि अन्तेनापि सहिता वर्तन्ते ॥ ११२ ॥
-तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया ।
आउठिई तेऊणं, अंतोमुहुत्तं जहन्निया ॥ ११३ ॥ तेजसां-तेजोजीवानामुत्कृष्टेन त्रीण्यहोरात्राण्यायुःस्थितिर्व्याख्याता, जघन्यिका चायु:- स्थितिरन्तर्मुहूर्तं ज्ञेयेत्यर्थः ॥११३ ॥
૧૭