________________
२४४]
[ उत्तराध्ययनसूत्रे-भाग-२ ___ "पत्तेयसरीरबायरवणस्सइकाइयाणं भंते केवइयं कालं काइठिई पण्णत्ता? गोयमा ! जहन्त्रेण अन्तोमुहुत्तं, उक्कोसेणं सत्तर सागरोवमकोडाकोडीओ । निगोदेणं भंते निओदेत्ति कालतो किइच्चिरं होति ? जहन्नेणं तं चेव, उक्कोसेणं अनन्तं कालंति" ।। १०३।। अथ कालस्यान्तरमाह
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ।
विजढंमि सए काए, पणगजीवाणमंतरं ॥ १०४ ॥ पनकजीवानां स्वकीये काये त्यक्ते सत्यपरस्मिन् पृथिव्यादिषु कायेषूत्पद्य पुनः पनकत्वेनोत्पद्यमानानामुत्कृष्टमसङ्ख्यकालमन्तरं भवति, जघन्यमन्तरमन्तर्मुहूर्तं भवति । इति कालान्तरं प्रतिपादितम् ॥ १०४ ॥ अथ प्रकृतमुपसंहृत्यागेतनं सम्बन्धं सूचयति
एएसिं वन्नओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वावि, विहाणाइं सहस्ससो ॥ १०५ ॥ एतेषां सूक्ष्मबादरवनस्पतिजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भवन्ति । सहस्रशः शब्देनासङ्ख्येया अनन्ताश्च भेदा भवन्तीत्युच्यते॥१०५॥
इच्चेए थावरा तिविहा, समासेण वियाहिया।
इत्तो य तसे तिविहे, वुच्छामि अणुपुव्वसो ॥१०६ ॥ इत्यमुना प्रकारेणैते त्रिविधाः स्थावराः पृथ्वीजलवनस्पतिजीवाः, तिष्ठन्तीत्येवंशीला: स्थावराः समासेन व्याख्याताः, विस्तरतोऽमी बहुभेदाः सन्ति । इतोऽनन्तरं त्रिविधांस्रसाननुपूर्वशोऽनुक्रमेण वक्ष्यामि ॥१०६ ॥
तेउ वाऊ य बोधव्वा, ओराला य तसा तहा ।
इच्चेए तसा तिविहा, तेसिं भेए सुणेह मे ॥१०७ ॥ तेजोयोगात्तेजांस्यग्नयस्तद्वर्तिनो जीवा अपि तथोक्ताः, एवं वायवश्च, तथा ओराला इत्युदारा एकेन्द्रियापेक्षया स्थूला द्वीन्द्रियादयश्च त्रसाः, इत्येते त्रसास्त्रिविधाः सन्ति । तेषां तेजोवायुद्वीन्द्रियादीनां च भेदान् मे कथयतो यूयं श्रृणुतेति । अत्र यद्यपि तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽपि त्रसनमस्ति, ततस्तेजोवाय्वोर्गतिमत्त्वादुदाराणां च लब्धितोऽपि त्रसत्वमस्ति, यतो हि त्रस्यन्ति-देशाद्देशान्तरं सङ्क्रामन्तीति त्रसा इति व्युत्पत्तिः॥१०७ ॥ १ प्रत्येकशरीरबादरवनस्पतिकायिकानां भदन्त ! कियन्तं कालं कायस्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन
अन्तर्महर्तम, उत्कृष्टन सप्ततिः सागरोपमकोटीकोट्यः । निगोदानां भदन्त ! निगोद इति कालतः कियच्चिरं भवति ? जघन्येन तच्चैव, उत्कर्षेण अनन्तं कालमिति ।।