________________
[ २४३
३६,
जीवाजीवविभक्त्याख्यमध्ययनम् ]
१६, वज्रकन्दः १७, सूरणकन्दस्तथा १८ ॥ ९९ ॥ अश्वकर्णी कन्दो बोधव्यः १९, तथैव सिंहकर्णीकन्दः २०, मुसण्ढीकन्दः २१, हरिद्राकन्दः २२, चैवमादिका अनेकधाः कन्दजातयो ज्ञेयाः ।। ९९ ।। साधारणलक्षणमिदं
"" गूढसिरागं पत्तं सच्छीरं, जं च होइ निच्छीरं । जंपि य पणट्ठसंधि, अनंतजीवं वियाणाहि ॥ १ ॥”
एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया । सुमा सव्वलोगंमि, लोगदेसे य बायरा ॥ १०० ॥
सूक्ष्मा वनस्पतिकायजीवा एकविधा अनानात्वा व्याख्याताः, तत्र सूक्ष्मा वनस्पतिजीवा निगोदनामानः सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके व्याप्ताः सन्तिः । बादरा वनस्पतिजीवा लोकदेशेऽभिव्याप्य स्थिताः सन्ति । कुत्रचित्प्रदेशे भवन्ति, कुत्रचित्प्रदेशे न भवन्तीत्यर्थः ॥ १०० ॥
संत पप्पऽणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ १०१ ॥
सन्ततिं प्राप्यैते वनस्पतिजीवा अनादयः पुनरपर्यवसिताः सन्ति । कायस्थितिं च प्रतीत्याश्रित्य सादिकाः सपर्यवसिताश्च सन्तीत्यर्थः ॥ १०१ ॥
दस चेव सहस्साई, वासाणुक्कोसिया भवे ।
वणसईण आउंतु, अंतोमुहुत्तं जहण्णिया ॥ १०२ ॥
वनस्पतीनां प्रत्येकवनस्पतिजीवानां वर्षाणां दश सहस्त्राण्युत्कुष्टायुः स्थितिर्भवेत् । जघन्यिका स्थितिश्चान्तर्मुहूर्तं भवेत् । साधारणानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिरस्ति, तस्मादत्र प्रत्येकवनस्पतिजीवानामेव स्थितिर्ज्ञेया ॥ १०२ ॥
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
कायठिई पणगाणं, तं कायं तु अमुंचओ ॥ १०३॥
पनकानां पनकोपलक्षितफूलणिवनस्पतिजीवानां तं स्वकीयं कायममुञ्चतां कायस्थितिरुत्कृष्टतोऽनन्तं कालं, जघन्यतश्चान्तर्मुहूर्तं कायस्थितिर्ज्ञेया । कोऽर्थः ? यदा हि पनकजीव: पनकाच्च्युत्वा पुनरनन्तरत्वेन पनकत्वे एवोत्पद्यते, तदैवमुत्कृष्टतोऽनन्तकालं तिष्ठति । जघन्यतोऽन्तर्मुहूर्तमेव तिष्ठतीति भावः । पनकानां चेह सामान्येन वनस्पतिजीवान्निगोदत्वेनोत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षया हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां वाऽसङ्ख्येयकालैवाऽवस्थितिः । उक्तं च भगवत्याम्
१ गूढशिराकं पत्रं, सक्षीरं यच्च भवति निक्षीरम् ।
यदपि प्रणष्टसन्धिकमनन्तं जीवं विजानाहि ॥ १ ॥