________________
२४२]
[ उत्तराध्ययनसूत्रे-भाग-२ तत्र साधारणशरीरवनस्पतिप्रत्येकशरीरवनस्पत्योर्मध्ये प्रत्येकवनस्पतिजीवास्त्वनेकथाः प्रकीर्तिताः, ते के ? उच्यन्ते-वृक्षाः सहकारादयः १, गुच्छा वृन्ताककण्टकारिकाद्याः २, गुल्मा नवमालतीप्रमुखाः ३, लताश्चम्पकाद्याः ४, वल्ल्यः कुष्माण्डाद्या: ५, तथा तृणाः कुशाद्याः ६ ॥ ९४ ॥
वलया पव्वया कुहणा, जलरुहा ओसही तहा।
हरियकाया बोधव्वा, पत्तेया इइ आहिआ॥९५॥ वलया नालिकेरकदल्याद्याः, इह तेषां शाखान्तराऽभावेन लतारूपत्वमुक्तम्, ७, पर्वजा ईक्ष्वाद्याः ८, कुहना भूमिस्फोटाद्याः ९, जलरुहाः कमलाद्याः १०, तथौषधयः शालिप्रमुखा ११, च पुनर्हरितकायाश्च तन्दुलीयकाद्याः १२, बोधव्या । इत्यमुना प्रकारेण प्रत्येकाः प्रत्येकवनस्पतिजीवा आख्याताः ॥ ९५ ॥ अथ चतसृभिर्गाथाभिः साधारणवनस्पतीनां नामान्याह
साहारणसरीरा उ, णेगहा ते पकित्तिया । आलुए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हरिलीसिरिली सिस्सिरिलि. जावईके य कंदली । पलंदूलसण कंदे य, कंदली य कुहुव्वए ॥ ९ ॥ लोहिणी हूयच्छी हूय, तुहग्गय तहेव य । कण्हे य वज्जकंदे य, कंदे सूरणए तहा ॥९८ ॥ अस्सकन्नी य बोधव्वा, सीहकन्नी तहेव य।
मुसंढी य हलिद्दे य, णेगहा एवमाइओ ॥ ९९ ॥ ये तु साधारणशरीराः साधारणवनस्पतिजीवा अनन्तकायवनस्पतिजीवास्तेऽप्यनेकधा अनेकप्रकाराः प्रकीर्तिताः, तेषां च मध्ये केषाञ्चित्प्रसिद्धानां नामान्याह-आलुकः, आलूपिण्डालुरक्तालुककन्दः १, तथा मूलकं प्रसिद्धं २, श्रृङ्गबेरकमाईकं ३, तथैव च ॥९६॥ हरिलीनामा कन्दः ४, सिरिलीनामा कन्दः ५, सिस्सिरिलीनामापि कन्दः ६, एते कन्दविशेषाः ।यावतिकोऽपि कन्दविशेष: ७, कन्दली कन्दः ८, पलाण्डुकन्दः ९, यो देशविशेषे मांसरूपः कन्दो भवति । लसूनकन्दस्तु प्रसिद्धः १०, कुहुव्रतकन्दलीकन्दोऽपि कन्दविशेषः ११, ॥९७ ॥लोहिनीकन्दः १२, हुताक्षीकन्दः१३, हूतकन्दः १४, तुहकन्दः १५, कृष्णकन्दः १ ओसहीतिणा-अन्यसंस्करणे, तत्र व्याख्या:-औषध्याः-फलपाकान्तास्तदूपाणि तृणानि औषधितृणानिशाल्यादीनि बृहद्वृत्त्यां प०६ ९२ A।