SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम्] [२४१ अपामप्कायजीवानां सप्तैव सहस्राणि वर्षाणामुत्कृष्टायुषः स्थितिर्भवेत्, जघन्यतोऽन्तर्मुहूर्तं भवेत् ॥ ८८ ॥ असंखकालमुक्कोसं, अंतोमुहत्तं जहणिया। कायठिई आऊणं, तं कायं तु अमुंचओ ॥८९ ॥ अपामप्कायजीवानां स्वं स्वकायमर्थादप्कायममुञ्चतामुत्कृष्टा कायस्थितिरसङ्ख्यकालं भवति । जघन्यिका कायस्थितिरन्तमहत्तं भवति ।। ८९ ॥ अणंतकालमुक्कोसं, अंतोमहत्तं जहन्नयं । विजढम्मि सए काए, आउजीवाणमंतरं ॥९० ॥ अप्कायजीवानां स्वकीये काये त्यक्ते सत्यपरस्मिन् काये उत्पद्य पुनः स्वकीये काये उत्पत्तिः स्यात्तदोत्कृष्टमन्तरमनन्तकालं भवति । जघन्यकमन्तरमन्तर्मुहूर्तं भवति । वनस्पतिकाये जीवोऽनन्तकालं तिष्ठति, तदाऽनन्तकालमन्तरं भवतीति भावः ॥ ९० ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाइं सहस्ससो ॥९१ ॥ एतेषामप्कायजीवानां वर्णतो गन्धतो रसतः स्पर्शत: संस्थानादेशतश्चापि संस्थाननामतश्चापि सहस्रशो बहवो भेदा भवन्ति ॥ ९३ ॥ अथ वनस्पतिजीवानाह दुविहा वणस्सई जीवा, सुहुमा बायरा तहा। पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ९२ ॥ वनस्पतिजीवा द्विविधाः, सूक्ष्मास्तथा बादराः, ते सूक्ष्मा बादराश्चापि पर्याप्ता अपर्याप्ताश्च द्विविधा आख्याताः ॥ ९२ ॥ बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया । साहास्मसरीरा य, पत्तेगा य तहेव य ॥ ९३ ॥ ये बादरा वनस्पतिजीवा: पर्याप्तास्तेऽपि द्विविधा व्याख्याताः, साधारणशरीराश्च पुनः प्रत्येका वनस्पतिजीवाः ॥ ९३ ॥ पत्तेयसरीरा उ णेगहा ते पकित्तिया । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥९४ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy