________________
२४०]
[उत्तराध्ययनसूत्रे-भाग-२ एतान्येव भावत आह
एएसिं वन्नओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वावि, विहाणाई सहस्ससो॥८३॥ एतेषां पृथ्वीजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशत: संस्थाननामतश्चापि सहस्रशो विधानानि-भेदा भवन्ति । सहस्रश इत्युपलक्षणम्, वर्णादितारतम्यस्य बहुभेदत्वेनासङ्ख्यातभेदत्वाद्वर्णादीनां भावरूपत्वात् ॥८३ ॥ अथाप्कायभेदानाह
दुविहा आउजीवा उ, सुहमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥८४॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से य, हरितणू महिया हिमे ॥८५॥ एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ।
सुहमा सव्वलोयंमि, लोयदेसे य बायरा ॥८६॥ तिसृणां गाथानामर्थ:-अब्जीवास्तु द्विविधाः, सूक्ष्मास्तथा बादरा अपि, पर्याप्ता अपर्याप्ताश्च, एवमेते द्विविधाः पुनर्वर्तन्ते इति शेष ॥ ८४ ॥
अथ पुनर्बादरा ये पर्याप्ता अब्जीवास्ते पञ्चधाः प्रकीर्तिताः, शुद्धोदकं मेघसमुद्रादेर्जलम्, अवश्यायः शरदादिषु ऋतुषु प्राभातिकसूक्ष्मवर्षारूपः, हरितनुः स पृथ्वीभवस्तृणाग्रबिन्दुः, महिका घूमरी, गर्भमासेषु सूक्ष्मधूमरूपजलवृष्टिरूपा, 'हिमे' इति हिमजलं खन्धारदेशादौ प्रसिद्धम् ॥८५ ॥ तत्र सूक्ष्मा अप्कायजीवा एकविधा अनानात्वास्तीर्थकरैर्व्याख्याताः । तत्र सूक्ष्मा अप्कायजीवाः सर्वस्मिश्चतुर्दशरज्वात्मके लोके वर्तन्ते बादरा अप्कायजीवा लोकस्यैकदेशे वर्तन्ते ॥८६॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य॥८७॥ सन्तति-प्रवाहमार्गमाश्रित्याप्कायजीवा अनादिकाः, पुनरपर्यवसिता अपि, स्थितिभवस्थितिं कायस्थितिं चाश्रित्य सादिकास्तथा सपर्यवसिता अवसानरहिता अपि वर्तन्ते ॥८७॥
सत्तेव सहस्साइं, वासाणुक्कोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहन्नियं ॥ ८८ ॥