________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२३९ संतई पप्पऽणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसिया वि य ॥७९॥ सन्ततिं प्राप्य-प्रवाहमाश्रित्यैते सूक्ष्मा बादराश्च पृथ्वीकायजीवा अनादय आदिरहिताः, च पुनरपर्यवसिता अप्यन्तररहिता अपि, स्थितिं प्रतीत्य, भवस्थितिकायस्थितिरूपां स्थितिमाश्रित्य, संसारवर्ती जीवः संसारे पृथ्वीकायान्तर्वर्ती सन् पृथ्वीकाये कियत्कालं तिष्ठतीति स्थितिविचारमाश्रित्य जीवाः सादिकाः सपर्यवसिताश्चापि वर्तन्ते ॥ ७९ ॥
बावीससहस्साइं, वासाणुक्कोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्निया ॥ ८० ॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्निया ।
कायठिई पुढवीणं, तं कायं तु अमुंचओ ॥८१॥ पृथ्वीनां - पृथ्वीकायजीवानां वर्षाणां द्वाविंशतिसहस्त्राण्युत्कृष्टायुः स्थितिर्भवेत्, जघन्यिका चान्तर्मुहूर्तं स्थितिर्भवेत् ॥ ८० ।।
भवस्थितिमुक्त्वा कायस्थितिं वदति
'असंखेति' पृथ्वीनामिति पृथ्वीकायजीवानां पृथ्वीकायममुञ्चतां पृथ्वीकाये स्थितिः संसारे चेद्भवति तद्युत्कृष्टाऽसङ्ख्यकालं स्थितिर्भवेत्, जघन्यिका चान्तर्मुहूर्तं स्थितिर्भवेत्, कोऽर्थः ? यदि पृथ्वीकायस्थो जीवः पृथ्वीकायतश्च्युत्वा पुनः पुनर्निरन्तरं पृथ्वीकाये एवोत्पद्यते, तदोत्कृष्टमसङ्ख्यं कालं यावत्तिष्ठति, जघन्यं त्वन्तर्मुहूर्तं तिष्ठतीति भावः । इत्थं द्विविधाया अपि स्थितेः सादिपर्यवसितत्वमुक्तम् ॥८१ ॥ अथ कालस्यान्तर्गतमेव कालान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ।
विजढम्मि सए काए, पुढवीजीवाणमंतरं ॥८२ ॥ पृथ्वीजीवानां स्वकीये काये 'विजढंमि' इति त्यक्ते सत्युत्कृष्टमनन्तं कालमन्तरं भवति, जघन्यकमन्तरमन्तर्मुहूर्तं भवति ।कोऽर्थः ? यदा हि पृथ्वीकायस्थो जीवः पृथ्वीकायाच्च्युत्वाऽपरस्मिन् काये उत्पद्येत, ततश्च्युत्वा पुनः पृथ्वीकाये एवोत्पद्येत तदा कियदन्तरं भवति ? उत्कृष्टमनन्तकालं, जघन्यमन्तर्मुहूर्तम् । यदा पृथ्वीजीवस्य पृथ्वीकायाच्च्युतिर्भूत्वा वनस्पतिकाये उत्पत्तिः स्यात्तदाऽनन्तकालस्यान्तरं जायते, वनस्पतिकायस्थजीवस्यानन्तकालस्थितित्वात्, जघन्यमन्तरमन्तर्मुहूर्तं भवति ॥ ८२ ॥