________________
२३८ ]
[ उत्तराध्ययनसूत्रे - भाग - २
१०, सीसकं ११, रूप्यं १२, सुवर्णं १३, अयश्च त्रपुकं च ताम्रं च सीसकं च रूप्यं च सुवर्णं चायस्त्रपुकताम्रसीसकरूप्यसुवर्णानि, एतेऽपि पृथ्वीभेदा इत्यर्थः । च पुनर्वज्रं हीरकं १४ इति चतुर्दश भेदाः ॥ ७३ ॥ हरितालः १५, हिङ्गुलः १६, मनःशिला १७, प्रसिद्धा । सीसको धातुविशेषो जसद इति लोके १८, अञ्जनं सुरमकं १९, प्रवालं विदुमं २०, अभ्रपटलं 'भोडल इति प्रसिद्धः २१, अभ्रवालुका अभ्रपटलमिश्रा वालुकाऽभ्रवालुका २२, बादरकाये-बादरपृथ्वीकायेऽमी भेदा उक्ताः । अथ मण्यभिधानापि पृथ्व्यस्ति, तस्मामण्यभिधानानि मणीनां नामान्युच्यन्ते, मणिभेदा अपि पृथ्वीभेदा एवेत्यर्थः ॥ ७४ ॥ कानि कानि मणिनामानि ? गोमयको गोमेधमणिः २३, च पुना स्वको स्वकनामा मणिः २४, अङ्करत्नं २५, स्फटिकरनं २६, लोहिताख्यो मणिः २७, मरकतमणिः २८, मसारगल्लश्च २९, भुजगमोचको मणिः ३०, च पुनरिन्द्रनीलरत्नं ३१, चन्दनः ३२, गैरिकनामा मणि: ३३, हंसगर्भः ३४, पुलकः ३५, पुनः सौगन्धिको मणिबधव्यः ३६, चन्द्रप्रभः ३७, वैडूर्यो मणिः ३८, जलकान्तो मणिः ३९, सूर्यकान्तो मणि: ४०, अत्रैतासु गाथासु खरपृथिव्याः षट्त्रिंशद्भेदा उक्ताः, गणनायां तु चत्वारिंशद्भेदाः सञ्जातास्तत्कथं ? तत्रोत्तरम्-अत्र हि रत्नानां केचिद्भेदाः केषुचिद्रत्नभेदेष्वन्तर्भवन्ति, तस्मान्नात्र कश्चिद्वीतरागवचनेषु दोषावकाशः ॥ ७५-७६ ॥
एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुमा तत्थ वियाहिया ॥ ७७ ॥
एते खरपृथिव्या भेदाः षट्त्रिंशत्समाख्यातास्तीर्थकरैरुक्ताः, पृथ्वीभेदात्पृथ्वीस्था जीवा अपि भिन्ना भिन्नाः, तत्र सूक्ष्मबादरपृथ्वीजीवेषु सूक्ष्मपृथ्वीजीवा एकविधा अनानात्वास्तीर्थकरैर्व्याख्याताः । न विद्यते नानात्वं येषां तेऽनानात्वा अबहुभेदा उक्ता इत्यर्थः । पूर्वं सूक्ष्मबादरौ मुख्यभेदौ द्वौ पृथ्वीकायजीवानामुक्तौ । एते हि सूक्ष्माणां बादराणामवान्तरभेदा उक्ताः, मुख्यवृत्त्या त्वेक एव सूक्ष्मो बादरो वैक एव भेदोऽस्ति, नानात्वं नास्तीत्यर्थः ॥७७॥
अथ तान् पृथ्वीजीवान् क्षेत्रत आह
सुहुमा सव्वलोयंमि, लोयदेसे य बायरा ।
इत्तो कालविभागं तु, तेसिं वुच्छं चडव्विहं ॥ ७८ ॥
सूक्ष्मा ये पृथ्वीकायजीवास्ते सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके सन्त्यभिव्याप्य स्थिताः सन्ति । बादराः पृथ्वीकायजीवा लोकदेशे तिष्ठन्ति, लोकस्य देशो-विभागो लोकदेशस्तस्मिस्तिष्ठन्ति, बादरा हि क्वचित्कस्मिंश्चित्प्रदेशे कदाचित्सम्भवन्ति, कदाचित्कस्मिश्चित्स्थाने न सम्भवन्ति । 'इत्तो' इति इतः क्षेत्रप्ररूपणानन्तरं तेषां पृथ्वीकायजीवानां चतुर्विधं कालविभागं - कालतो भेदं वक्ष्ये ॥ ७८ ॥
१ अबरख ।