________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२३७ ___ ये बादराः पृथ्वीजीवाः पर्याप्ता उक्तास्ते द्विविधा व्याख्याताः । एके बादराः पृथ्वीजीवाः पर्याप्ताः श्लक्ष्णाचूर्णरूपाः, च पुनरेके बादराः पृथ्वीजीवा पर्याप्ताः खराः कठिनाश्च बोधव्याः। तत्र श्लक्ष्णखरयोः पृथ्वीजीवयोर्मध्ये श्लक्ष्णाः पृथ्वीजीवाः सप्तविधा ज्ञातव्याः ॥७१ ॥ सप्तविधत्वमेवाह- .
किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा ।
पंडुपणगमट्टिया, खरा छत्तीसईविहा ॥ ७२ ॥ कृष्णा: श्यामवर्णाः, नीला नीलवर्णाः,रुधिरा रक्तवर्णाः, हारिद्राः पीतवर्णाः,शुक्ला धवलवर्णाः, तथा पंडुत्ति' पाण्डुवर्णा ईषच्छुभ्रा इत्यर्थः । इत्थं वर्णभेदेन षड्विधत्वमुक्तम् । इह च पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदान्तरसम्भवसूचकम् । सप्तमो भेदस्तु पनकमृत्तिकारूप: पनको ह्यत्यन्तसूक्ष्मत्वेनाकाशे वर्तमानो लोके पृथ्वीत्वेनारूढस्तस्माद्धेदत्वेन गृहीतः । इत्यनेन श्लक्ष्णा पृथ्वी सप्तविधोक्ता । अथ खरा पृथ्वी षट्त्रिंशद्विधा तीर्थङ्करैर्व्याख्याताः ॥७२॥ तान् भेदानाह
पुढवी यसक्करा वालुयाय, उवले सिला यलोणोसे। अय तउय तंबसीसग, रुप्प सुवण्णे य वयरे य ॥७३ ॥ हरियाले हिंगुलुए, मणोसिला सीसगंजणपवाले । अब्भपडलब्भवालुय, बायरकाए मणिविहाणा ॥७४ ॥ गोमिज्जाए य रुयगे, अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले, भुयमोयग इंदनीले य ॥ ७५ ॥ चंदणगेरूयहंसगब्भ-पुलए सोगंधिए य बोधव्वे।
चंदप्पहवेरुलिए, जलकंते सूरकन्ते य ॥ ७६ ॥
पृथ्वी शुद्धा लिम्पनयोग्या १, शर्करा 'मरुण्डादिरूपा कर्करमयी २, वालुका च स्थलीभूमौ प्रसिद्धा ३, उपलो 'गण्डशैलपाषाणखण्डादिरूपा ४, शिला बृहत्पाषाणमयी ५, 'लोणोसे' इति लवणोषे, लवणं च उषा च लवणोषे, लवणं समुद्रादिभ्य उत्पन्नम्, तदपि पृथ्वीरूपमेव ६, ऊषा उषरमयी ६, अयो लोहं ८, त्रपुकं कस्तीरं ९, तानं प्रसिद्धं १ 'मरडीया' इति गुर्जरभाषायां । २ पर्वतमांथी छूटा पडेला मोटा पथ्थर । ३ कलाइ इति गुर्जरभाषायाम् ।