________________
२३६]
[उत्तराध्ययनसूत्रे-भाग-२ कीदृशाः ? ज्ञानदर्शनसंज्ञिता इत्यनेन केषाञ्चिद् ज्ञानसंज्ञा, केषाञ्चिदर्शनसंज्ञा जैनमते तु सर्वेषां सिद्धानामुभे ज्ञानदर्शने संज्ञे जाते स्तः, ज्ञानदर्शनमयाः सिद्धा इत्यर्थः । पुनः कीदृशाः ? संसारपारनिस्तीर्णाः, पुनरागमनाभावात्संसारमतिक्रान्ता इत्यनेन केषाञ्चिन्मते भक्तोद्धारार्थ, दानवानां विनाशार्थं भूयोभूयो भूमाववतीर्य भक्तकार्यं विधाय मुक्ति व्रजति प्रभुरिति मतमपि निराकृतम् । पुनः कीदृशाः ? सिद्धि-वरगतिं गता इत्यनेन क्षीणकर्माणोऽपि लोकाग्रगमनस्वभावेनोत्पत्तिसमये सक्रियत्वमप्यस्तीति गाथाभिप्रायः ॥६७॥ अथ सिद्धानभिधाय संसारिणो जीवानाह
संसारत्था य जे जीवा, दुविहा ते वियाहिया।
तसा य थावरा चेव, थावरा तिविहा तर्हि ॥६८॥ ये जीवाः संसारस्थास्ते जीवा द्विविधास्तीर्थकरैर्व्याख्याताः। ते के ? त्रसाः स्थावराश्च, एते द्विविधाः । अथ द्वैविध्ये सत्यप्यल्पकथनत्वात्पूर्वं स्थावराणां निर्देशं करोति । तत्र स्थावरेषु त्रिविधाः स्थावराः सन्ति ॥ ६८॥
पुढवी आउजीवा य, तहेव य वणस्सई ।
एच्चेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥६९ ॥ स्थावरास्त्रिविधाः, जीवशब्दस्य प्रत्येकं सम्बन्धात् पृथ्व्येव जीवाः पृथ्वीजीवाः, आपो जलं, ते एव जीवा अम्बुजीवाश्च, पृथिवी चापश्च पृथिव्यापस्तदूपा जीवाः पृथिव्याप्जीवाः, तथैव च वनस्पतिर्वनस्पतिजीवाः, जीवशरीरयोरन्योन्यानुगतत्वेन कथञ्चिदभेदात्पृथिव्याप्वनस्पतिषु जीवव्यपदेशः । इत्येते पृथिव्यादयस्त्रिविधाः स्थावराः सन्ति । तेषां त्रयाणां स्थावराणां भेदान् 'मे' मम कथयतस्त्वं श्रृणु ॥६९ ॥ पृथिवीभेदानाह
दुविहा पुढवीजीवा, सुहमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ७० ॥ पृथिवीजीवस्तु द्विविधा उक्ताः,सूक्ष्माश्चर्मचक्षुरगोचराः केवलज्ञानगम्याः, तथा पुनः पृथ्वीजीवा बादराः, ते च पर्याप्ता अपर्याप्ताश्च, आहारशरीरेन्द्रियोच्छ्वासनिःश्वासरूपाभिः पर्याप्तिभिश्चतसृभिः शक्तिभिर्युक्ताः पर्याप्ताः, तथा तेभ्यो विपरीता अपर्याप्ताः । सूक्ष्माः पृथ्वीजीवाः पर्याप्ताः अपर्याप्ताः, बादराः पृथ्वीजीवा: पर्याप्ताअपर्याप्ताः, एवं द्विविधाः॥७०॥ तत्र पुनरेषामुत्तरभेदानाह
बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया । सण्हा खरा य बोधव्वा, सण्हा सत्तविहा तहिं ॥७१॥